Proofing

2026-04-03 16:52:41 by ambuda-bot

This page has not been fully proofread.

२८४
 
श्रीरामस्तोत्रेषु
 
ध्यानारूढमुनीन्द्रमानससरो हंसाय संसारवि-
 
ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ १०९ ॥
क्षीराम्भोनिधिमध्यवर्ति निशिता ..... सुवर्णाम्बरे
रक्तलोचनमपद्मपटले जाम्बूनदे मण्डपे ।
तेजोधामनि पुष्पके रविनिभे माणिक्यसिंहासने
हेमाम्भोरुहकर्णिकान्तरतले वीरासने सुस्थितम् (?) ॥ ११० ॥
ये वन्ति पठन्ति रामचरितं ये भाग्यवन्तः सदा
धीरोदात्तरघूत्तमस्य चरणौ ध्यायन्ति ये मानसे ।
ये कुर्वन्ति समस्तधर्मनिचयं रामस्य सुप्रीतये
 
तेषां सर्वमनोरथान् वितनुते साक्षाद्रघूणां पतिः ॥ १११ ॥
 
रामं रामानुजं सीतां भरतं भरतानुजम् ।
 
सुग्रीवं वायुसू नुं च प्रणमामि पुनः पुनः ॥ ११२ ॥
 
यन्नामधेयं स्त्रियमाण आतुरः
 
पतन् स्खलन् वाप्यवशो गृणन्नरः ।
 
विमुक्तकर्मार्गल उत्तमां गतिं
 
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ११३ ॥
॥ इति श्रीरामशतकं सम्पूर्णम् ॥
 
१५. ॥ अथ श्रीमङ्गलश्लोकरामायणम् ॥
सर्वलोकशरण्याय साकेत पुरवासिने ।
 
सत्सेविताय रामाय ससीतायास्तु मङ्गलम् ॥ १ ॥
 
कौसल्यायां दशरथाज्जाताय परमात्मने ।
सदा भरतसौमित्रिशत्रुघ्नेशाय मङ्गलम् ॥ २ ॥
कौशिकक्रतुरक्षार्थं कृत्वा मारीचमर्दनम् ।
 
अहल्यापापनाशाय रघुनाथाय मङ्गलम् ॥ ३॥
 
जित्वा [भक्त्वा ] शैवं पुरा चापं प्राप्य सीतामनुत्तमम् ।
अयोध्यामागतायास्तु गुणपूर्णाय मङ्गलम् ॥ ४॥
पितुः सत्यप्रतिज्ञायै कैकेय्या वचनादपि ।
चित्रकूटनिवासाय सीतारामाय मङ्गलम् ॥ ५ ॥
पादुके भरते याते दत्त्वा राज्यस्य पालने ।
दण्डकारण्यवासाय धैर्ययुक्ताय मङ्गलम् ॥ ६ ॥
हत्वा विराधं बलिनं मुनीनां भावितात्मनाम् ।
दत्ताभयाय रामाय पद्माक्षायास्तु मङ्गलम् ॥ ७ ॥