Stotrarnava /316
This page has not been fully proofread.
१४. ॥ अथ श्रीरामशतकम् ॥
आपादकेशमति सुन्दरदिव्यगात्रं
श्रीपाद रेणुहृत गौतमदारशापम् ।
कोपातिरक्तनयनक्षुभिताम्बुराशि
भूपालसूनुमवलोकय रामचन्द्रम् ॥ १ ॥
कोदण्डकोटिविनिवेशित बाहुदण्ड-
माखण्डलाद्यमरपातितपुष्पवर्षम् ।
अयोधनक्षितिरजः परिधूसराङ्ग-
मव्याच्चिरं रघुपतेरवसन्नशत्रोः ॥ २ ॥
चन्द्रोपमं मलयचन्दनरूषिताङ्गं
मन्दारष्पपरिपूजितपादपद्मम् ।
ब्रह्मेन्द्रदेवमुनियोगिगणावृतं तं
वन्देऽरविन्दनयनं रघुरामचन्द्रम् ॥ ३ ॥
सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं
माणिक्य कुण्डलधरं मकुटाभिरामम् ।
चाम्पेयगौरवसनं शरचापहस्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ४ ॥
सीतापतिं कमलपत्रविशालनेत्रं
रामं कृपाकरमनन्तगुणानुरक्तम् ।
इन्द्रादिसर्व सुरसिद्ध सुपूजिताङ्घ्रि
नित्यं भजेऽहमसुनायकमप्रमेयम् ॥ ५ ॥
एकेन बाणमितरेण करेण चाप
हारं वहन्तमुरसा शिरसा जटाश्व ।
सीतासहायमनुजेन वने चरन्तं
श्रीरामचन्द्रमनिशं कलयामि चिन्ते ॥ ६ ॥
संसारसागरसमुद्धरणैकमन्त्र
ब्रह्मादिदेवमुनिसेवित सिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
सेवे सदा गुणनिधिं रघुरामचन्द्रम् ॥ ७ ॥
आपादकेशमति सुन्दरदिव्यगात्रं
श्रीपाद रेणुहृत गौतमदारशापम् ।
कोपातिरक्तनयनक्षुभिताम्बुराशि
भूपालसूनुमवलोकय रामचन्द्रम् ॥ १ ॥
कोदण्डकोटिविनिवेशित बाहुदण्ड-
माखण्डलाद्यमरपातितपुष्पवर्षम् ।
अयोधनक्षितिरजः परिधूसराङ्ग-
मव्याच्चिरं रघुपतेरवसन्नशत्रोः ॥ २ ॥
चन्द्रोपमं मलयचन्दनरूषिताङ्गं
मन्दारष्पपरिपूजितपादपद्मम् ।
ब्रह्मेन्द्रदेवमुनियोगिगणावृतं तं
वन्देऽरविन्दनयनं रघुरामचन्द्रम् ॥ ३ ॥
सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं
माणिक्य कुण्डलधरं मकुटाभिरामम् ।
चाम्पेयगौरवसनं शरचापहस्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ४ ॥
सीतापतिं कमलपत्रविशालनेत्रं
रामं कृपाकरमनन्तगुणानुरक्तम् ।
इन्द्रादिसर्व सुरसिद्ध सुपूजिताङ्घ्रि
नित्यं भजेऽहमसुनायकमप्रमेयम् ॥ ५ ॥
एकेन बाणमितरेण करेण चाप
हारं वहन्तमुरसा शिरसा जटाश्व ।
सीतासहायमनुजेन वने चरन्तं
श्रीरामचन्द्रमनिशं कलयामि चिन्ते ॥ ६ ॥
संसारसागरसमुद्धरणैकमन्त्र
ब्रह्मादिदेवमुनिसेवित सिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
सेवे सदा गुणनिधिं रघुरामचन्द्रम् ॥ ७ ॥