Proofing

2026-04-02 21:27:29 by ambuda-bot

This page has not been fully proofread.

२६४
 
श्रीरामस्तोत्रेषु
 
निकुम्भिलायां शक्रारिकृतहोमविघाततः ।
विभीषणवचोजातात् कुपितेनेन्द्रवैरिणा ॥ ८४ ॥
 
सार्धं कृता जिना नानादिव्यास्त्रज्ञेन धीमता ।
धर्मात्मेत्यादिपद्येन प्रतिज्ञां कुर्वता ततः ॥ ८५ ॥
 
सौमित्रिणा स्वानुजेन हतप्राणेन्द्रशात्रव ।
मिषत्सु वानरेन्द्रेषु नानामूर्तिधर स्वयम् ॥ ८६ ॥
 
हतमूलबलाढ्येन शौर्यवीर्यादिसम्पदा ।
नानास्त्रविदुषा देवसङ्घगर्वापकर्षिणा ॥ ८७ ॥
 
कृताजे पङ्क्तिवक्त्रेण स्यन्दनं जम्भभेदिनः ।
आरुह्य सूतेनानीतं दिव्यं मातलिनास्त्रतः ॥ ८८ ॥
अनेकधा विलूनारिदशशीर्ष स्वयंभुवः ।
अस्त्रेण संहृताराते पूर्व जस्योत्तरक्रियाम् ॥ ८९ ॥
 
कृतचित्तसमाधान न चिकीर्षोर्जुगुप्सया ।
विभीषणस्य तेनैव विहितारातिसंस्कृते ॥ ९० ॥
 
प्रलापवाक्यैस्तत्स्त्रीणां निजपारम्य[सूचकैः]।
ज्ञापितोत्कर्ष सीतायां श्रुत्वा विजयमाहवे ॥ ९१ ॥
निजं हनूमद्वाक्येन सन्तुष्ट राक्षसीगणम् ।
अपराधिनमप्यस्माद्रक्षन्त्यां दयया ततः ॥ ९२ ॥
 
विभूषितायां भूषाभिः स्नातायां निजमन्तिकम् ।
विभीषणेनानीतायामशोक गहनादरे: ॥ ९३ ॥
 
निजचारित्रसन्देहात् प्रविशन्त्यां हुताशनम् ।
समागतैर्ब्रह्ममुख्यैर्दैवतैर्विहितस्तु ॥ ९४ ॥
तातं निजं पुरस्कृत्य दत्तसीत कृशानुना ।
शक्रादिवरलाभेन समुत्थापितवानर ॥ ९५ ॥
 
कृताभिषेक लङ्कायां रावणावरजस्य तु ।
यक्षनाथविमानेन पुष्पकेणाशुगामिना ॥ ९६॥
 
प्रतिप्रयात वैदेह्यै प्रोक्तस्वचरिताध्वनि ।
सुग्रीवप्रमुखैः सार्धं सहदारैः वङ्गमैः ॥ ९७ ॥