Stotrarnava /308
This page has not been fully proofread.
२६२
श्रीरामस्तोत्रेषु
वैदेहीकरुणावाक्यशीतलाङ्गूलवाह्निना ।
प्रस्थितेन पुनः शैलं त्रिकूटमधितिष्ठता ॥ ५५ ।
तीर्णवारिधिना सर्वैर्नन्दितेनाङ्गदादिभिः ।
तेभ्यः प्रोक्तस्ववृत्तेन पानेऽनुमतिदायिना ॥ ५६॥
मधुनो वारितवता तद्वनावनवानरान् ।
दधिवक्त्रमुखानात्मसन्निधानमुपेयुषा ॥ ५७ ॥
विज्ञापितात्ममहिला दृष्टिवाक्य हनूमता ।
प्रशंसित परिष्वक्तमारुतात्मज ते नमः ॥ ५८ ॥
॥ युद्धकण्डः ॥
श्रुत्वा हनुमतो वाक्यं हरिवीरैर्वृताध्वनि ।
सुग्रीवप्रमुखैस्तीरं प्राप्त सिन्धुमहीपतेः ॥ ५९ ॥
तत्रागताय संत्यज्य पूर्वजं कालचोदितम् ।
[सत्य]वाक्यमशृण्वन्तं मैथिलीदानगोचरम् ॥ ६० ॥
स्वनिन्दनपरित्यक्तपुत्रदाराय धीमते ।
आत्मानं सर्वलोकानां शरण्यं भजते गतिम् ॥ ६१ ॥
सुग्रीवादीन् पुरस्कृत्य वाकिञ्चन्य पुरस्सरम् ।
विभीषणाय सर्वेभ्यो भूतेभ्योऽभयदायक ॥ ६२ ॥
इममाशङ्कमानानां सुग्रीवादिवनौकसाम् ।
परिहारकर स्वीयसामर्थ्यस्य प्रदर्शनात् ॥ ६३ ॥
भूयस्तदनुमत्या तमङ्गीकृत्याभिषेचनम् ।
कृतवांस्तस्य तद्वाक्यात् समुद्रं शरणागत ॥ ६४ ॥
दर्भानास्तीर्य तत्तीरे प्राङ्मुखाञ्जलिबन्धन ।
उपाधाय भुजं स्वीयं शयान प्रतिवारिधिम् ॥ ६५ ॥
तस्मिन्नदत्तवदने संत्यक्तक्षम कोपन ।
चापसंहित हैरण्यगर्भास्त्रास्मिन् समागते ॥ ६६ ॥
निष्कोपोत्तरपाथोधितीरस्थासुरमर्दन ।
तेन तद्वाक्यतो बद्धनलसेतो तदम्भसि ॥ ६७ ॥
तीर्णवारिनिधे शाखामृगसङ्घैः सहाचिरात् ।
तस्य दक्षिणतीरे तु प्राप्तलङ्कापुरान्तिक ॥ ३८ ॥
अध्वयानपरिश्रान्त त्रातवानरसैन्यक ।
सुवेलशैलशृङ्गस्थ सुग्रीवप्रमुखैः सह ॥ ६९ ॥