Proofing

2026-04-02 21:27:28 by ambuda-bot

This page has not been fully proofread.

श्रीरामसम्बोधनस्तोत्रम्
 
अशोकवनिकावाससीतादर्शिस्वचक्षुषः ।
रामसाहाय्यकरणसमुत्थितगरुत्मतः ॥ ४१ ॥
 
॥ सुन्दरकाण्डः ॥
 
महेन्द्रशैलारूढेन तूर्णं तीर्णपयोधिना ।
अनाश्वस्तेन तन्मध्ये सिंहिकाद्यनिरोधिना ॥ ४२ ॥
 
प्रविष्टेन पुरीं लङ्कां रात्रौ तद्देवता जिता ।
शीधुपानमदाविष्टनिद्राणस्य वधूस्ततः ॥ ४३ ॥
 
दशास्यस्यालोकयता निराशेनापि दर्शने ।
 
वैदेह्याः शिंशपामूले वसन्त्यास्तत्तरोः पुनः ॥ ४४ ॥
 
दलावृतेन कथिताशेषराघववृत्ततः ।
 
प्रत्ययार्थं सशङ्कायः सीताया भूरुहात्ततः ॥ ४५ ॥
 
अवतीर्णेन दत्तस्वकरभूषेण सीतया ।
 
आलोकितेन शस्तेन कृतसंभाषणेन च ॥ ४६॥
 
उक्तकाकादिवृत्तेन दत्तचूडाविभूषतः ।
 
उक्तस्व दैन्यवाक्येन स्वमुद्दिश्य तु जीवनम् ॥ ४७ ॥
 
अनुज्ञातेन रचिताशोककाननभङ्गतः ।
 
प्रासादभेदिना रम्यतोरणं समुपेयुषा ॥ ४८ ॥
 
दासोऽहं कोसलेन्द्रस्येत्यादि श्रावयता वचः ।
किङ्करान् पञ्च सेनेशान् सप्त मन्त्रिसुतानपि ॥ ४९ ॥
 
जम्बुमालिनमक्षं च युद्धे हतवता बलात् ।
वलारिजिद्विसृष्टेन ब्राह्मणास्त्रेण बन्धनात् ॥ ५० ॥
 
रज्ज्वन्तराणां संसर्गाद्विमुक्तेनाञ्जसा पुनः ।
 
तज्ज्ञात्वापि कृतां पीडां सहमानेन राक्षसैः ॥ ५१ ॥
 
प्रविष्टेन दशग्रीवसभां यातुभिरावृताम् ।
 
कथितस्वकपीशान सख्य मुख्यप्रवृत्तिना ॥ ५२ ॥
 
कुपितेनारिणा हिंसां कर्तुमुद्युञ्जता पुनः ।
विभीषणवचोभङ्गीविनिवर्तितचेतसा ॥ ५३ ॥
दहास्य प्रियं वालमित्यादिष्टवता भटान् ।
दग्धवालेन वालाग्निदग्धारि पुरवेश्मना ॥ ५४ ॥
 
२६१