Proofing

2026-04-02 21:27:27 by ambuda-bot

This page has not been fully proofread.

श्रीरामनामस्तुतिः
 
३५७
 
श्रितचिन्तामणिमतिकरुण (कर मरिहरमुरुतरशरकोदण्डं भो चेतः श्रीरामं
 
भज शरणम् ॥ ७ ॥
 
एवं स्तुत्वा रामचन्द्रं मुनीन्द्राः
 
प्रत्येकं ते भक्तिनम्रास्तदानीम् ।
आपन्नार्तिध्वान्तभानुं प्रपन्ना-
स्तूष्णीमासन ग्रामपादैकनिष्ठाः ॥ ८ ॥
 
॥ इति श्रीरामसप्तर्षिस्तोत्रं सम्पूर्णम् ॥
 
११. ॥ अथ श्रीरामनामस्तुतिः ॥
शब्दोच्चारणादेव मुखान्निर्यान्ति पातकाः ।
पुनः प्रवेशनभिया मशब्दस्तु कवाटवत् ॥ १ ॥
रामेति वर्णद्वयमादरेण
 
सदा स्मरन् मुक्तिमुपैति जन्तुः ।
कलौ युगे कल्मषमानसाना-
 
मन्यत्र धर्मे खलु नाधिकारः ॥ २ ॥
 
जानाति राम तव नामरुचिं महेशो
जानाति गौतमसती चरणप्रभावम् ।
जानाति दोर्बलपराक्रममीशचापो
 
जानात्यमोघपटुबाणगतिं पयोधिः ॥ ३ ॥
 
जानाति राम तव चित्तगतिं हनूमान्
 
जानाति राम तव सख्यगतिं कपीशः ।
 
जानाति राम तव युद्धगतिं दशास्यो
 
जानाति राम तव मोक्षगतिं गजेन्द्रः [ खगेन्द्रः 1 ] ॥ ४ ॥
 
पटुतरजलधीरध्वानमादाय चापं
 
पवनजवनमेकं बाणमाकृष्य तूणात् ।
अभयवचनदायी सानुजः सर्वतो मे
 
रणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥ ५ ॥
॥ इति श्रीरामनामस्तुतिः सम्पूर्णा ॥
 
1. जटायुरित्यर्थ:
 
17