Proofing

2026-04-02 21:27:27 by ambuda-bot

This page has not been fully proofread.

२५६
 
श्रीरामस्तोत्रेषु
 
श्रितचिन्तामणिमतिकरुणाकरमरिहर मुरुतरशरकोदण्डं भो चेतः श्रीरामं
भज शरणम् ॥ २ ॥
 
भरद्वाज:-
 
उपर्युपरि मनोरथजालं विद्वानपि कामयते यतते पुत्रमित्रकलत्रादिषु
निर्वेदं नैति कामकामी विद्यासम्पत्कुलधनसौभगयौवन गर्वपर्वताधिरूढो मूढः
पश्चादन्धे तमसि पतेदवशोऽन्धोऽन्धुमिव भो चेतः श्रीरामं भज शरणं
भज रघुरामं शरणम् ॥
 
श्रितचिन्तामणिमतिकरुणाकर मरिहर मुरुतरशर कोदण्डं भो चेतः श्रीरामं
भज शरणम् ॥ ३ ॥
 
विश्वामित्र:-
 
अरिषडुर्गं जहि तृष्णामपि मायाविलसितमिदमिति बुद्ध्वा दुर्जनसङ्गति-
मतिदूरीकुरु सज्जनमाश्रय भो परधनपरदाराभिरतिं त्यज पारलौकिकं धर्मं परिचिनु
पद्मापतिपदपद्मं सेव (य) [स्व ] बन्धविमुक्त्यै भो चेतः श्रीरामं भज शरणम् ॥
श्रितचिन्तामणिमतिकरुणाकर मरिहर मुरुतरशर कोदण्डं भो चेतः श्रीरामं
भज शरणम् ॥ ४ ॥
 
गौतम :-
 
कर्णाकर्णय वैदेहीवरवर्णनीयगुणवन्दितचरितं नयनालोकय नयननलिन-
मुख सुन्दरेन्दुबिम्बं मस्तक संस्तुतमहिमानं नम कस्तूरीनिकराकारं हस्तयुगार्चय
हरिपद्ममलं ह्यवनीपालमिनकुलरत्नं भो चेतः श्रीरामं भज शरणं भज
रघुरामं शरणम् ॥
 
श्रितचिन्तामणिमति करुणाकर मरिहर मुरुतरशर कोदण्डं भो चेतः श्रीरामं
भज शरणम् ॥ ५ ॥
 
जमदग्नि:-
 
परापवादं परिहर जिह्वे पारुष्यं चानृतमपि मा वद् सङ्कीर्तय केशव
नारायण दामोदर कृष्ण नरहरे वैकुण्ठाधिप लक्ष्मीवल्लभ बुधजनमानसमन्दिर
सीतानायक दशरथ नन्दन इति सततं भो चेतः श्रीरामं भज शरणम् ॥
 
श्रितचिन्तामणिमतिकरुणाकरमरिहर मुरुतरशर कोदण्डं भो चेतः श्रीरामं
भज शरणम् ॥ ६ ॥
 
वसिष्ठः-
 
नित्यानन्दं सत्यमनन्तं ब्रह्म परात्परमव्ययममलं नित्यं शुद्धं बुद्धं
शाश्वतमप्रमेयमनाद्यन्तं सर्वासामुपनिषदामर्थोऽयं श्रीरामः सीतापतिरिति
चतुराननशिव हैमवतीजपसर्वस्वं मन्त्रं भो चेतः श्रीरामं भज शरणं भज
रघुरामं शरणम् ॥