Proofing

2026-04-02 21:27:26 by ambuda-bot

This page has not been fully proofread.

२५०
 
श्रीरामस्तोत्रेषु
 
वनविहारिणो वल्कलाम्बरौ
वनफलाशिनौ वासवस्तुतौ ।
वरगुणाकरौ वानरार्चितौ
 
रहसि नौमि तौ रामलक्ष्मणौ ॥ ४ ॥
 
घनतटिन्निभौ खडगधारिणौ
 
जटाम्बरौ खण्डितव्यथौ ।
 
करशिलीमुखौ खरकरप्रभौ
 
रहसि नौमि तौ रामलक्ष्मणौ ॥ ५ ॥
 
सवनरक्षकौ सत्यसङ्गरौ
 
समरभीकरौ साहसान्वितौ ।
 
सदयमानसौ सर्वपूजितौ
 
रहसि नौमि तौ रामलक्ष्मणौ ॥ ६ ॥
 
मकरकुण्डल मौनिसेवितौ
 
मनुकिरीटिनौ मानुषोत्तमौ ।
 
मनुकुलेश्वरौ मञ्जुभाषिणौ
 
रहसि नौमि तौ रामलक्ष्मणौ ॥ ७ ॥
 
वरगुणास्पदं राघवाष्टकं
 
रहसि यः पठेद्रामभक्तिम् ।
रहितकल्मषं रामसन्निधौ
 
रविसमप्रभो राजते सदा ॥ ८ ॥
 
॥ इति श्रीराघवाष्टकं सम्पूर्णम् ॥
 
सूत उवाच -
 
श्रीभीष्मः -
 
९. ॥ अथ श्रीरामविश्वरूपस्तवः ॥
 
ततो बदरिकारण्यं पुण्यं प्राप्य सुधर्मधीः ।
 
व्यासं मुनिवरश्रेष्ठं नत्वा भोष्मोऽब्रवीद्वचः ॥ १ ॥
 
मया मुनिवरश्रेष्ठ विश्रुता हिं सहस्रशः ।
गणेशशक्तिसूर्येशचक्रिणां स्तुतयोऽमलाः । २ ॥