Stotrarnava /294
This page has not been fully proofread.
७. ॥ अथ श्रीरामरत्नदशकम् ॥
वेणुनादलोलबालगोपिकाकदम्बकं
लीलयोद्धृतैकशैलगुप्तगोकदम्बकम् ।
कामरूपकेलिलोल भूविलासिनीपतिं
राम राम राम रामनाम जल्प तारकम् ॥ १ ॥
राजराजमौलिरत्नराजिताङ्घ्रिपङ्कजं
राजराजसोदरोच्छिरः सरोजभञ्जनम् ।
रामशब्द्गीतयुक्तयोगिमुक्तिदायकं
राम राम राम रामनाम जल्प तारकम् ॥ २ ॥
जानकीमनः सरोजराजहंसविभ्रमं
पारिजातजातदेववन्दितोरुविक्रमम् ।
पादपद्मरेणुधौत गौतमाङ्गनार्चितं
राम राम राम रामनाम जल्प तारकम् ॥ ३ ॥
दूषणादिराक्षसेन्द्रदन्तिकेसरीश्वरं
सप्तसालभेदकृत्यदक्ष दिव्यसायकम् ।
कामितप्रदानदक्षकल्पवृक्षरूपिणं
राम राम राम रामनाम जल्प तारकम् ॥ ४ ॥
शङ्करादिगीयमानपुण्यनामकीर्तनं
भानुकोटिकान्तिकान्तरत्नशेखराञ्चितम् ।
सामगानलोलचित्तभक्तलोकनायकं
राम राम राम राम नाम जल्प तारकम् ॥ ५ ॥
जातयातुधाननाशकारिकार्मुकोज्ज्वलं
पादरेणुलेशधौत गौतमप्रियानुतम् ।
जानकीविला सलोलमानसं कृपानिधि
राम राम राम रामनाम जल्प तारकम् ॥ ६ ॥
भनुवंशवार्धिचन्द्रमिन्द्रनीलसुन्दरं
भारतीविलासनृत्तमण्टपा[युता ] ननम् ।
बालभानुकोटितुल्यपीतवस्त्रसंवृतं
राम राम राम रामनाम जल्प तारकम् ॥ ७ ॥
वेणुनादलोलबालगोपिकाकदम्बकं
लीलयोद्धृतैकशैलगुप्तगोकदम्बकम् ।
कामरूपकेलिलोल भूविलासिनीपतिं
राम राम राम रामनाम जल्प तारकम् ॥ १ ॥
राजराजमौलिरत्नराजिताङ्घ्रिपङ्कजं
राजराजसोदरोच्छिरः सरोजभञ्जनम् ।
रामशब्द्गीतयुक्तयोगिमुक्तिदायकं
राम राम राम रामनाम जल्प तारकम् ॥ २ ॥
जानकीमनः सरोजराजहंसविभ्रमं
पारिजातजातदेववन्दितोरुविक्रमम् ।
पादपद्मरेणुधौत गौतमाङ्गनार्चितं
राम राम राम रामनाम जल्प तारकम् ॥ ३ ॥
दूषणादिराक्षसेन्द्रदन्तिकेसरीश्वरं
सप्तसालभेदकृत्यदक्ष दिव्यसायकम् ।
कामितप्रदानदक्षकल्पवृक्षरूपिणं
राम राम राम रामनाम जल्प तारकम् ॥ ४ ॥
शङ्करादिगीयमानपुण्यनामकीर्तनं
भानुकोटिकान्तिकान्तरत्नशेखराञ्चितम् ।
सामगानलोलचित्तभक्तलोकनायकं
राम राम राम राम नाम जल्प तारकम् ॥ ५ ॥
जातयातुधाननाशकारिकार्मुकोज्ज्वलं
पादरेणुलेशधौत गौतमप्रियानुतम् ।
जानकीविला सलोलमानसं कृपानिधि
राम राम राम रामनाम जल्प तारकम् ॥ ६ ॥
भनुवंशवार्धिचन्द्रमिन्द्रनीलसुन्दरं
भारतीविलासनृत्तमण्टपा[युता ] ननम् ।
बालभानुकोटितुल्यपीतवस्त्रसंवृतं
राम राम राम रामनाम जल्प तारकम् ॥ ७ ॥