Proofing

2026-04-02 21:27:25 by ambuda-bot

This page has not been fully proofread.

२४५
 
श्रीरामब्रह्मस्तुतिः
 
चोदितं वेदनिकरैर्नादबिन्दुकलात्मकम् ।
 
आधारं सर्वभूतानां रामं वन्दे जगद्गुरुम् ॥ २१ ॥
 
दयासिन्धुं सुमनसां हृदयानन्दचन्दिरम् ।
 
सदानन्दकरं विष्णुं रामं वन्दे जगद्गुरुम् ॥ २२ ॥
 
यो गतिः सर्वभूतानां योगदानादिकर्मिणाम् ।
योगमायाधारभूतं रामं वन्दे जगद्गुरुम् ॥ २३ ॥
रामतारावलीमेनां प्रत्यहं यः पठेन्नरः ।
 
स गच्छेद्रामसायुज्यं न पुनर्लभतेऽसुखम् [जनिम् ] ॥ २४ ॥
॥ इति श्रीरामतारावलिः सम्पूर्णा ॥
 
६. ॥ अथ श्रीरामब्रह्मस्तुतिः ॥
ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः ।
दध्यौ मुहूर्त धर्मात्मा बाष्पव्याकुललोचनः ॥ १ ॥
 
ततो वैश्रवणो राजा यमश्वामित्रकर्शनः ।
सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ॥ २॥
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः ।
कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ३ ॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः ।
आगम्य नगरीं लङ्कामभिजग्मुच राघवम् ॥ ४ ॥
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् ।
अब्रुवंस्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम् ॥ ५ ॥
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां प्रभुः [वरः ] ।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥ ६॥
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ।
 
ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥ ७ ॥
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ।
रुद्राणामष्टमो रुद्रः साध्यानामपि [सि ] पञ्चमः ॥ ८ ॥
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ।
अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ॥ ९ ॥