Proofing

2026-04-02 21:27:24 by ambuda-bot

This page has not been fully proofread.

२४४
 
श्रीरामस्तोत्रेषु
 
रेवतीरमणं शान्तं राकाचन्द्रनिभाननम् ।
राक्षसान्तकरं रम्यं रामं वन्दे जगद्गुरुम् ॥ ६ ॥
निर्मलं निगमाकारं नीलजीमूतसंनिभम् ।
 
नित्यानन्दं निराभासं रामं वन्दे जगद्गुरुम् ॥ ७ ॥
 
यज्ञेशं यज्ञभोक्त्तारं यज्ञपुण्यफलप्रदम् ।
 
यक्षराक्षसभेत्तारं रामं वन्दे जगद्गुरुम् ॥ ८ ॥
 
भर्गधर्मप्रभेत्तारं भक्तानामभयप्रदम् ।
 
भक्तहृनेहवासिनं [संवासं ] रामं वन्दे जगद्गुरुम् ॥ ९ ॥
 
गोधनं क्रोधरहितं गोपीजनमनोहरम् ।
गोधवार्चितपादाब्जं रामं वन्दे जगद्गुरुम् ॥ १० ॥
 
देवेशं देवतावन्द्यं देवान्तकनिपूदनम् ।
बाधनातीतममलं रामं वन्दे जगद्गुरुम् ॥ ११ ॥
 
वराहरूपं वागीशं वामनाकारमच्युतम् ।
स्नेहीकृत हनूमन्तं रामं वन्दे जगद्गुरुम् ॥ १२ ॥
 
सर्वज्ञं सर्वदेवेशं सर्वभूतहिते रतम् ।
 
सर्वयज्ञाधिपं सर्वं रामं वन्दे जगद्गुरुम् ॥ १३ ॥
 
भीकृतारातिनिकरं प्रकृतेः परमव्ययम् ।
 
प्रव्यक्तममलं भव्यं रामं वन्दे जगद्गुरुम् ॥ १४ ॥
 
मायातीतं मौनिगम्यं माधवं मत्स्यरूपिणम् ।
मारीचमदहन्तारं रामं वन्दे जगद्गुरुम् ॥ १५ ॥
 
हिरण्यवर्ण सीताभिरामावामाङ्कसंस्थितम् ।
शरण्यं सर्वलोकानां रामं वन्दे जगद्गुरुम् ॥ १६ ॥
धीरं नीरधिगम्भीरं शूरं शत्रुनिबर्हणम् ।
मारकोटिशुभाकारं रामं वन्दे जगद्गुरुम् ॥ १७ ॥
ईषाशेषमृषाशेषकायिनं बहुमायिनम् ।
 
पोषिताशेषदीनौघं रामं वन्दे जगद्गुरुम् ॥ १८ ॥
 
नतार्तिशममानन्दमव्ययं चित्स्वरूपिणम् ।
 
अव्यक्तममलं भव्यं रामं वन्दे जगद्गुरुम् ॥ १९ ॥
 
प्रव्यक्तममलं शान्तं मध्यमं चित्स्वरूपिणम् ।
अव्यक्तमभिभेत्तारं रामं वन्दे जगद्गुरुम् ॥ २० ॥