Stotrarnava /289
This page has not been fully proofread.
श्रीरामतारावलिः
वाचिकं मानसं पापं कर्मणा समुपार्जितम् ।
श्रीरामस्मरणेनैव व्यपोहतु न संशयः ॥ ७१ ॥
गीतानामसहस्रे द्वे स्तवराजो ह्यनुस्मृतः ।
यस्य कुक्षौ तु वर्तन्ते स वै नारायणः स्मृतः ॥ ७२ ॥
श्रीरामचन्द्र रघुपुङ्गव राजवर्य
राजेन्द्र राम रघुनायक राघवेश ।
राजाधिराज रघुनन्दन राघवेश
दासोऽहमद्य भवतः शरणं गतोऽस्मि ॥ ७३ ॥
श्रीरामरामरामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ७४ ॥
इदं सत्यमिदं सत्यं सत्यं नैबातिरिच्यते ।
राघवश्च परब्रह्म रामात किञ्चिन्न विद्यते ॥ ७५ ॥
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ।
रामाय रामभद्राय रामचद्राय वेधसे ॥ ७६ ॥
रघुनाथाय नाथाय सीतायाः पतये नमः ।
श्रीरामचन्द्रचरणसरोरुहाभ्यां नमः ॥ ७७ ॥
॥ इति श्रीहिरण्यगर्भसंहितायां ब्रह्मनारदसंवादे
श्रीरघुनाथस्तवराजः सम्पूर्णः ॥
५. ॥ अथ श्रीरामतारावलिः ॥
तारकं ताटकारातिं तापत्रयनिवारकम् ।
तत्स्वरूपचिदानन्दं रामं वन्दे जगद्गुरुम् ॥ १ ॥
सर्वज्ञं सर्वदेवेशं सनकादिभिरर्चितम् ।
सनातनतमं देवं रामं वन्दे जगद्गुरुम् ॥ २ ॥
विश्वरूपं विश्वधरं विश्वव्यापिनमव्ययम् ।
विश्वोत्पत्तिस्थानभूतं रामं वन्दे जगद्गुरुम् ॥ ३॥
तुषाराद्रिसुतावन्द्यं तृणीकृतदशाननम् ।
तुला रहितरूपान्यं रामं वन्दे जगद्गुरुम् ॥ ४॥
वरदं वासुदेवाख्यं वाल्मीकि विनुतं हरिम् ।
वंशीरवानुरक्तं च रामं वन्दे जगद्गुरुम् ॥ ५॥
२४३