Stotrarnava /288
This page has not been fully proofread.
२४२
श्रीरामस्तोत्रेषु
शान्तं सर्वगतं सूक्ष्मं परब्रह्मस्वरूपिणम् ।
राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ ५८ ॥
ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम् ।
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम् ॥ ५९ ॥
श्रीनारद उवाच-
यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे ।
त्वन्मूर्तिदर्शनादेव कृतार्थोऽस्मि किमीप्सितम् ॥ ६० ॥
धन्योऽहं कृतकृत्योऽस्मि पुण्योऽहं पुरुषोत्तम ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ६१ ॥
अद्य मे सफलं सर्वमद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं त्वत्पदाम्भोजदर्शनात् ॥ ६२ ॥
अद्वैतं विमलं ज्ञानं त्वन्नामस्मरणं तथा ।
त्वत्पदाम्भोजसद्भक्तिं देहि मे रघुनन्दन ॥ ६३ ॥
श्रीराम उवाच-
ततः परमसुप्रीतो रामः प्राह सनातनः ।
मुनिवर्य महाभाग पुनरिष्टं ददामि ते ॥ ६४ ॥
श्रीनारद उवाच -
वरं न याचे रघुनाथ युष्म-
त्पादाब्जभक्तिः सततं ममास्तु ।
इमं प्रियं राम वरं प्रयच्छ
पुनः पुनस्त्वामिदमेव याचे ॥ ६५ ॥
इत्येवमुदितो रामः प्रादात्तस्मै वरत्रयम् ।
सर्वसौभाग्यसम्पत्तिदायकं मुक्तिदं शुभम् ॥ ६६ ॥
इति श्रीरघुनाथस्य स्तवराजं महोत्तमम् ।
ब्रह्मपुत्रेण कथितं वेदानां सारमुत्तमम् ॥ ६७ ॥
गुह्याद्गुह्यतमं राजंस्तव स्नेहात् प्रकीर्तितम् ।
यः पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धयान्वितः ॥ ६८ ॥
ब्रह्महत्यादिपापानि तत्समानि बहूनि च ।
सुवर्णस्तेयपापानि तत्समानि बहूनि च ॥ ६९ ॥
सुवर्णस्तेयपापानि ( गुरुतल्पायुतानि ) [ तत्समानि बहूनि ] च ।
सर्वपापैः प्रमुच्यन्ते कल्पायुतशतोद्भवैः ॥ ७० ॥