Proofing

2026-04-02 21:27:23 by ambuda-bot

This page has not been fully proofread.

श्रीरघुनाथस्तवराजः
 
अचिन्त्यमव्यक्तमचिन्त्यरूपं
 
भजामि रामं तमसः परस्तात् ॥ ४८ ॥
 
तत्त्वस्य रूपं पुरुषं पुराणं
 
स्वतेजसा पूरितलोकनाथम् ।
 
राजाधिराजं रविमण्डलस्थं
 
विश्वेश्वरं राममहं भजामि ॥ ४९ ॥
 
मुनीन्द्रगुह्यं परिपूर्णमेकं
 
कलानिधिं कल्मषनाशहेतुम् ।
 
परात्परं तत्परमं पवित्रं
 
नमामि नित्यं महतो महान्तम् ॥ ५० ॥
 
अनेकवेदात्मकमादिसंज्ञ-
 
माद्यं हरिं राममनन्तमूर्तिम् ।
 
अपारसच्चित्सुख मेकरूपं
 
नमामि रामं महतो महान्तम् ॥ ५१ ॥
 
अशेषसंसारविकारहीन-
 
मानन्दसम्पूर्णमुखाभिरामम् ।
समस्तसाक्षिं [क्ष्यं ] तमसः परस्ता-
 
नारायणं विष्णुमहं नमामि ॥ ५२ ॥
 
ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा ।
रुद्रादित्याश्च वसवः साध्याश्च मुनिपुङ्गवाः ॥ ५३ ॥
 
विप्रा वेदास्तपो यज्ञाः पुराणं धर्मसंस्थिताः ।
वर्णाश्रमास्तथा धर्मा धर्मा वर्णाश्रमास्तथा ॥ ५४ ॥
 
नागा यक्षाश्च गन्धर्वा दिक्पाला दिग्गजा दिशाः ।
आदित्यादिग्रह[हा] चैव त्वमेव रघुपुङ्गव ॥ ५५ ॥
 
सप्त द्वीपा : समुद्राश्च नगा नद्यस्तथा द्रुमाः ।
स्थावरं जङ्गमं चैव त्वमेव पुरुषोत्तम ॥ ५६ ॥
 
देवतिर्यङ्मनुष्यणां दानवानां तथैव च ।
माता पिता तथा भर्ता त्वमेव रघुनन्दन ॥ ५७ ॥
 
16
 
२४१