Proofing

2026-04-02 21:27:23 by ambuda-bot

This page has not been fully proofread.

२४०
 
श्रीरामस्तोत्रेषु
 
मन्मथं मधुरानाथं माधवं मकरध्वजम् ।
श्रीधरं श्रीकरं श्रेयः श्रीनिवासं परात्परम् ॥ ३५ ॥
भूतेशं भूरिदं भद्रं भूतिदं भूतिभूषणम् ।
सर्वदुःखहरं देवं दुष्टदानववैरिणम् ॥ ३६ ।
श्रीनृसिंह महाविष्णुं महसा दीप्ततेजसम् ।
चिदानन्दमयं रामं प्रणवज्योतिरात्मकम् ॥ ३७ ॥
आदित्यमण्डलगतं (निश्चिता)[सच्चिदा]त्मस्वरूपिणम् ।
भक्तप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम् ॥ ३८ ॥
कौसलेयं कलानाथं काकुत्स्थं कमलाप्रभुम् ।
सिंहासने समासीनं सत्यत्रतमकल्मषम् ॥ ३९ ॥
विश्वामित्रप्रियं दान्तं स्वदारनियतत्रतम् ।
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ ४० ॥
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यम् ।
नरवानरदेवैश्च सेवितं हनुमत्प्रियम् ॥ ४१ ॥
 
सत्यसन्धं जितक्रोधं शरणागतवत्सलम् ।
सर्वशापहरणं विभीषणवरप्रदम् ॥ ४२ ॥
दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् ।
 
शुद्धं सूक्ष्मं परं शान्तं तारकब्रह्मसंज्ञितम् ॥ ४३ ॥
 
सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् ।
सर्वकारणकर्तारं निदानं प्रकृतेः परम् ॥ ४४ ॥
 
निरामयं निराभासं विरवद्यं निरञ्जनम् ।
नित्यानन्दं निराकारमद्वैतं तमसः परम् ॥ ४५ ॥
 
परात्परतरं नित्यं सत्यानन्दं चिदात्मकम् ।
 
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ ४६ ॥
 
वेदान्तवेद्यं कविमीशितार-
 
मनादिमध्यान्तविहीनमाद्यम् ।
 
अगोचरं निर्मालमेकरूपं
 
नमामि रामं तमसः परस्तात् ॥ ४७ ॥
 
विभूतिदं विश्वसृजं विरामं
 
राजेन्द्रमीशं रघुवंशनाथम् ।