Proofing

2026-04-02 21:27:23 by ambuda-bot

This page has not been fully proofread.

श्रीरघुनाथस्तवराजः
 
सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् ।
 
कृताञ्जलिपुटो भूत्वा चिन्तयेदद्भुतं हरिम् ॥ २१ ॥
एवं सचिन्तयेद्रामं यज्ज्योतिरमलं शुभम् ।
यदेकं यत्परं नित्यं यदानन्दचिदात्मकम् ।
 
तदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥ २२ ॥
विज्ञानहेतुं विमलायताक्षं प्रज्ञानसंदीप्यसुखैकहेतुम् [रूपम् ] ।
श्रीरामचन्द्र हरिमादिदेवं परात्परं राममहं भजामि ॥ २३ ॥
कविं पुराणं पुरुषं पुरस्तात्परात्परं योगिनमीशितारम् ।
अणोरणीयां समनन्तवीर्यं प्राणेश्वरं राममसौ ददर्श ॥ २४ ॥
 
नारद उवाच -
 
नारायणं जगन्नाथमभिरामं जगत्पतिम् ।
 
कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ २५ ॥
राजराजं रघुवरं कौसल्यानन्दवर्धनम् ।
 
भर्गं वरेण्यं विश्वेयं रघुनाथं जगद्गुरुम् ॥ २६ ॥
सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम् ।
सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ २७ ॥
आदित्यं रविमीशानं घृणि सूर्यमनामयम् ।
आनन्दरूपिणं सौम्यं राघवं करुणानिधिम् ॥ २८ ॥
जमदग्निं तपोमूर्तिं रामं परशुधारिणम् ।
 
वाक्पतिं वरदं वाच्यं श्रीपतिं पुरुषोत्तमम् ॥ २९॥
श्रीशार्ङ्गधारिणं देवं चिन्मयानन्दविग्रहम् ।
हलधृग्विष्णुमीशानं बलरामं कृपानिधिम् ॥ ३० ॥
 
श्रीवल्लभं कलानाथं जगन्मोहनमच्युतम् ।
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ ३१ ॥
 
वामदेवं जगद्योनिमनादिनिधनं हरिम् ।
गोविन्दं गोपतिं कृष्णं गोपीजनमनोहरम् ॥ ३२ ॥
 
गोपालं गोमतीवासं गोपकन्यासमावृतम् ।
विद्युत्पुञ्जप्रतीकाशं रामं कृष्णमनामयम् ॥ ३३ ॥
गोगोपिकासमासीनं वेणुनादनतत्परम् ।
 
कामरूपं कलावन्तं कामिनं कामदं विभुम् ॥ ३४ ॥
 
२३९