Proofing

2026-04-02 21:27:22 by ambuda-bot

This page has not been fully proofread.

श्री तारावलिः
 
सीतासमेतः शक्रादिवरोत्थापितवानरः ।
सुहृत्सौमित्रिसीताधिरूढपुष्पविमानकः ॥ ३१ ॥
 
भरद्वाजार्चितः सम्यग्भरतादिसमन्वितः ।
नन्दिग्रामगतः स्नातः सर्वालङ्कारभूषितः ॥ ३२ ॥
अयोध्यापुरवासी च राज्ये पट्टाभिषेचितः ।
तालवृन्तसिनच्छत्रचामराद्युपशोभितः ॥ ३३ ।
जानकीनन्दनः सर्वसुहृद्वर्गाभिहर्षणः ।
हृष्टपुष्टजनाकीर्णः पुरराष्ट्राभिरञ्जनः ॥ ३४ ॥
इत्येवं रामचन्द्रस्य कर्मनाम शुभावहम् ।
अष्टाविंशोत्तरशतं कीर्तितं परमर्षिणा ॥ ३५ ॥
गुह्याद्गुह्यतरं पुण्यं भक्त्या युक्तो नरः सदा ।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ ३६ ॥
॥ इति श्रीरामनामाष्टाविंशत्युत्तरशतस्तोत्रं सम्पूर्णम् ॥
 
३. ॥ अथ श्रीतारावलिः ॥
श्रीवत्सवत्सचिह्नाञ्चितवक्षःस्थल धरासुताजाने ।
 
२३५
 
त्वमिह दयादृष्टया मन्दाक्रान्तं रक्ष मां दद्याशरधे [ब्धिदाशरथे ] ॥ १ ॥
कृतयत्नविफलकारिणमतिकष्टदमर्यमात्मजं मन्दम् ।
न स्तौमि तमसुरे परिपालय मां दद्याब्धिदाशरथे ॥ २ ॥
शरणागतरक्षक तव चरणद्वयभक्तिरस्तु मम हृदये ।
न स्तौमि तमसुरारे परिपालय मां दद्याब्धिदाशरथे ॥ ३ ॥
अवमानदमापत्करमरिपक्षजयोत्सुकं सुदुःखकरम् ।
न स्तौमि तमसुरारे परिपालय मां दद्याब्धिदाशरथे ॥ ४ ॥
नानापवादभयदं सदनधनद्रव्यनाशकर कुद्दालम् ।
न तौमि तमसुरे परिपालय मां दद्याब्धिदाशरथे ॥ ५ ॥
कुत्सितगुणसम्पन्नं क्रौर्यमनः संप्रकाशितोद्योगम् ।
 
न स्तौमि तमसुरे परिपालय मां दद्याब्धिदाशरथे ॥ ६ ॥
गृध्राशनम तिमलिनं निद्रालस्यादिदोषदं नृणाम् ।
 
न स्तौमि तमसुरारे परिपालय मां दद्याब्धिदाशरथे ॥ ७ ॥ -