Stotrarnava /280
This page has not been fully proofread.
२३४
श्रीरामस्तोत्रेषु
चतुर्दशसहस्रोग्ररक्षोबलनिषूदनः ।
त्रिशिरोदूषणारा तिरुन्मत्तखरघातनः ॥ १७ ।
मैथिलीहृदयानन्दी मायामृगविमर्दनः ।
वैदेहीमार्गणासक्तो जटायुस्सद्गतिप्रदः ॥ १८ ॥
अयोमुखीभङ्गकरः कबन्धभुजखण्डनः ।
शवरीपूजितः सम्यग्दर्शिताश्रमवैभवः ॥ १९ ॥
पम्पातीरे वनोल्लासदर्शनोल्वणमन्मथः ।
हनूमत्कृतसंवादः प्राप्त सुग्रीवसौहृदः ॥ २० ।
सुग्रीवदत्तवैदेहीत्यक्तवस्त्रविभूषणः ।
सुग्रीवाय प्रतिज्ञातवालिनिर्वापणः स्वयम् ॥ २१ ॥
पाददंष्ट्रसमुत्क्षिप्तमाहिपास्थिसमुत्करः ।
सप्ततालप्रभेत्ता च कृतसुग्रीवलाञ्छनः ॥ २२ ॥
वालिप्रमथनो वाग्मी तारातत्त्वोपदेशकृत् ।
सुग्रीवकृतसङ्केतः सुग्रीवेप्सितराज्यदः ॥ २३ ।
वर्षासु माल्यवद्वासी लक्ष्मणप्रतिबोधितः ।
ऋक्षवानरसङ्घाती दिक्षु प्रेषितवानरः ॥ २४ ॥
अङ्गुलीय प्रदाता च निश्चितार्थो हनूमति ।
हनुमन्मुखविज्ञातसीतोदन्तः प्रसन्नधीः ॥ २५ ॥
चूडामणिनिरस्ताधिः सीतावाक्यामृताप्लुतः ।
हनूमतः परिष्वङ्गपारितोषिकदायकः ॥ २६ ॥
रक्षोवधाभिनिर्यायी सेनानयविशारदः ।
विभीषणस्याभयदः शरणागतवत्सलः ॥ २७ ॥
समुद्रोपासिता रोपवेगक्षोभितसागरः ।
शिवलिङ्गप्रतिष्ठाता नलसेतुविधायकः २८ ॥
हनुमद्वाहनचैव लङ्काद्वारावरोधकः ।
दशग्रीव महारत्नकिरीटवरभञ्जनः ॥ २९ ।
उदीर्णकुम्भकर्णादिसर्वरक्षः कुलान्तकः ।
युद्धे रावणहन्ता च ब्रह्मादिसुरसंस्तुतः ॥ ३० ॥