Proofing

2026-04-02 21:27:21 by ambuda-bot

This page has not been fully proofread.

श्रीमृन्नाथस्तोत्रम्
 
अम्भोरुहाणि नवपादपपल्लवानि
त्वत्पादयोरभिलषन्ति सदृक्षतां यत् ।
सैषां न दोष इह किं नु वनेशयानां
 
स्वस्यापरस्य च विशेषनिबोधलेशः ॥ ९२ ॥
यत्पादपद्ममहिमेदृगितीश शक्यं
 
नो वेदितुं प्रमितिरस्ति तथा विकारि [पि कापि ] ।
यत्तत्परागवहनेन पुरा स्वमूर्ध्ना
 
शक्तोऽभवत् कमलभूर्भुवनानि कर्तुम् ॥ ९३ ॥
एतावतापि पदयोर्महिमानुमेय-
 
स्तोयं यदीयनखधावनपूतपूतम् ।
लोकत्रयीवृजिनकाननदाहदक्षं
 
दक्षारिणा शिरसि यद्भियतेऽनुवेलम् ॥ ९४ ॥
 
रेखा विभाति चरणे तव सूक्ष्मसूक्ष्मा
 
स्थूलस्य मङ्गलशतस्य सदा सवित्री ।
कार्याणि कारणगुणान् दधतीति वार्ता
 
मिथ्येति या कथयते निजचेष्टयैव ॥ ९५ ॥
 
चित्रं भवोष्महरणं महदङ्कुशं च
 
सेवाकृतां व्यसनवारणवारणार्थम् ।
हर्षाभिषेकविधये कलशाङ्करेखा-
 
रूपं दधज्जयति ते पदपद्मयुग्मम् ॥ ९६ ॥
 
तोयं निपीय तव कान्तिमवाप्य मेघा
 
गर्जन्त ऊर्जितमदा दिवि सञ्चरन्तः ।
 
तस्मिन् गते विरुचयो लघवच सन्ति
 
शोभां लभेत भुवि कः स्वधनप्रणाशे ॥ ९७ ॥
 
त्वत्कान्तिलेशहरणादपराधवन्त-
 
त्रासात्तमालतरवो विपिने निलीनाः ।
सत्त्वाश्रयोऽपि च गभीरतरोऽपि सिन्धुः
 
शब्दायते तरलतां च मुहुः प्रयाति ॥ ९८ ॥
 
त्वच्चारुविग्रहगुणान् भणितुं फणीन्द्रः
 
शब्दान् विधाय विततान् विविधप्रमाणान् ।
 
जिह्वा सहस्रयुगलेन निगद्य नान्तं
 
गच्छन्ननन्त इति नाम जगाद [म] नूनम् ॥ ९९ ॥
 
२२९