Stotrarnava /275
This page has not been fully proofread.
श्रीमृन्नाथस्तोत्रम्
अम्भोरुहाणि नवपादपपल्लवानि
त्वत्पादयोरभिलषन्ति सदृक्षतां यत् ।
सैषां न दोष इह किं नु वनेशयानां
स्वस्यापरस्य च विशेषनिबोधलेशः ॥ ९२ ॥
यत्पादपद्ममहिमेदृगितीश शक्यं
नो वेदितुं प्रमितिरस्ति तथा विकारि [पि कापि ] ।
यत्तत्परागवहनेन पुरा स्वमूर्ध्ना
शक्तोऽभवत् कमलभूर्भुवनानि कर्तुम् ॥ ९३ ॥
एतावतापि पदयोर्महिमानुमेय-
स्तोयं यदीयनखधावनपूतपूतम् ।
लोकत्रयीवृजिनकाननदाहदक्षं
दक्षारिणा शिरसि यद्भियतेऽनुवेलम् ॥ ९४ ॥
रेखा विभाति चरणे तव सूक्ष्मसूक्ष्मा
स्थूलस्य मङ्गलशतस्य सदा सवित्री ।
कार्याणि कारणगुणान् दधतीति वार्ता
मिथ्येति या कथयते निजचेष्टयैव ॥ ९५ ॥
चित्रं भवोष्महरणं महदङ्कुशं च
सेवाकृतां व्यसनवारणवारणार्थम् ।
हर्षाभिषेकविधये कलशाङ्करेखा-
रूपं दधज्जयति ते पदपद्मयुग्मम् ॥ ९६ ॥
तोयं निपीय तव कान्तिमवाप्य मेघा
गर्जन्त ऊर्जितमदा दिवि सञ्चरन्तः ।
तस्मिन् गते विरुचयो लघवच सन्ति
शोभां लभेत भुवि कः स्वधनप्रणाशे ॥ ९७ ॥
त्वत्कान्तिलेशहरणादपराधवन्त-
त्रासात्तमालतरवो विपिने निलीनाः ।
सत्त्वाश्रयोऽपि च गभीरतरोऽपि सिन्धुः
शब्दायते तरलतां च मुहुः प्रयाति ॥ ९८ ॥
त्वच्चारुविग्रहगुणान् भणितुं फणीन्द्रः
शब्दान् विधाय विततान् विविधप्रमाणान् ।
जिह्वा सहस्रयुगलेन निगद्य नान्तं
गच्छन्ननन्त इति नाम जगाद [म] नूनम् ॥ ९९ ॥
२२९
अम्भोरुहाणि नवपादपपल्लवानि
त्वत्पादयोरभिलषन्ति सदृक्षतां यत् ।
सैषां न दोष इह किं नु वनेशयानां
स्वस्यापरस्य च विशेषनिबोधलेशः ॥ ९२ ॥
यत्पादपद्ममहिमेदृगितीश शक्यं
नो वेदितुं प्रमितिरस्ति तथा विकारि [पि कापि ] ।
यत्तत्परागवहनेन पुरा स्वमूर्ध्ना
शक्तोऽभवत् कमलभूर्भुवनानि कर्तुम् ॥ ९३ ॥
एतावतापि पदयोर्महिमानुमेय-
स्तोयं यदीयनखधावनपूतपूतम् ।
लोकत्रयीवृजिनकाननदाहदक्षं
दक्षारिणा शिरसि यद्भियतेऽनुवेलम् ॥ ९४ ॥
रेखा विभाति चरणे तव सूक्ष्मसूक्ष्मा
स्थूलस्य मङ्गलशतस्य सदा सवित्री ।
कार्याणि कारणगुणान् दधतीति वार्ता
मिथ्येति या कथयते निजचेष्टयैव ॥ ९५ ॥
चित्रं भवोष्महरणं महदङ्कुशं च
सेवाकृतां व्यसनवारणवारणार्थम् ।
हर्षाभिषेकविधये कलशाङ्करेखा-
रूपं दधज्जयति ते पदपद्मयुग्मम् ॥ ९६ ॥
तोयं निपीय तव कान्तिमवाप्य मेघा
गर्जन्त ऊर्जितमदा दिवि सञ्चरन्तः ।
तस्मिन् गते विरुचयो लघवच सन्ति
शोभां लभेत भुवि कः स्वधनप्रणाशे ॥ ९७ ॥
त्वत्कान्तिलेशहरणादपराधवन्त-
त्रासात्तमालतरवो विपिने निलीनाः ।
सत्त्वाश्रयोऽपि च गभीरतरोऽपि सिन्धुः
शब्दायते तरलतां च मुहुः प्रयाति ॥ ९८ ॥
त्वच्चारुविग्रहगुणान् भणितुं फणीन्द्रः
शब्दान् विधाय विततान् विविधप्रमाणान् ।
जिह्वा सहस्रयुगलेन निगद्य नान्तं
गच्छन्ननन्त इति नाम जगाद [म] नूनम् ॥ ९९ ॥
२२९