Stotrarnava /274
This page has not been fully proofread.
२२८
श्रीविष्णुस्तोत्रेषु
पङ्केरुहस्य भवतः पदसंज्ञितस्य
पत्राणि भान्ति परमङ्गुलिसंज्ञितानि ।
येषु क्षरन्मधुरसेषु सतां मुनीनां
चेतोऽभिधा मधुकराः सततं रमन्ते ॥ ८४ ॥
मुद्राकृताधिकरुचिस्ततिर ङ्गुलीनां
मुद्राविहीनरुचिरप्यवभासते ते ।
लक्ष्मीपते भवति पल्लवहारितास्या
भक्तावलेरपि विपल्लवहारिता च ॥ ८५ ॥
आशादशाधिवसतां निजसेवकानाम्
आशानुपूरणकृतेऽङ्गुलयो दशैताः ।
त्वत्पादयोरपि च तत्तमसां विलुप्त्यै
ज्योत्स्नाकिरश्च दश तन्नखचन्द्रडिम्भाः ॥ ८६ ॥
धावल्यमस्ति नखरेषु तवेति केचित्
प्राहुर्बुधाः कतिचिदत्र तु रक्तिमेति ।
पक्षौ निसर्गरमणीयतया त्रिलोक्या
भक्तानुरागभजनादपि तौ घटेते ॥ ८७ ॥
एकस्थितिं वितनुतो न गुणौ विरुद्धौ
पादद्वये तु तव नैवममेयधामन् ।
मुक्तावलीसुखकरा नखरास्त एव
मुक्तावलीसुखहेराश्च भवन्ति चित्रम् ॥ ८८ ॥
श्यामात्मनस्तव कुतो नु पदाम्बुजाभ्या-
मासादितः परमशोभन एष रागः ।
किं वा नमत्सुरकिरीट मणेरुता हो
संवाहनेषु कमलाकरपल्लवाभ्याम् ॥ ८९ ।
दानक्रियाधरितकल्पकवृक्षमूर्ध-
न्यासेन तत्किसलयोत्करतः किमाहो ।
दैत्यारिनाथमथनक्रमणे तदास्य-
निष्यन्दमानबहुलक्षतजप्रवाहात् ॥ ९० ॥
मुक्तिप्रदं महितकान्तियुतं समस्त -
सम्पत्रं च विपदां हरणप्रवीणम् ।
ऋष्यङ्गनाधनविपन्नजयाशयानां
सङ्घट्टसंकटनिवासपदं पदं ते ॥ ९९ ॥
श्रीविष्णुस्तोत्रेषु
पङ्केरुहस्य भवतः पदसंज्ञितस्य
पत्राणि भान्ति परमङ्गुलिसंज्ञितानि ।
येषु क्षरन्मधुरसेषु सतां मुनीनां
चेतोऽभिधा मधुकराः सततं रमन्ते ॥ ८४ ॥
मुद्राकृताधिकरुचिस्ततिर ङ्गुलीनां
मुद्राविहीनरुचिरप्यवभासते ते ।
लक्ष्मीपते भवति पल्लवहारितास्या
भक्तावलेरपि विपल्लवहारिता च ॥ ८५ ॥
आशादशाधिवसतां निजसेवकानाम्
आशानुपूरणकृतेऽङ्गुलयो दशैताः ।
त्वत्पादयोरपि च तत्तमसां विलुप्त्यै
ज्योत्स्नाकिरश्च दश तन्नखचन्द्रडिम्भाः ॥ ८६ ॥
धावल्यमस्ति नखरेषु तवेति केचित्
प्राहुर्बुधाः कतिचिदत्र तु रक्तिमेति ।
पक्षौ निसर्गरमणीयतया त्रिलोक्या
भक्तानुरागभजनादपि तौ घटेते ॥ ८७ ॥
एकस्थितिं वितनुतो न गुणौ विरुद्धौ
पादद्वये तु तव नैवममेयधामन् ।
मुक्तावलीसुखकरा नखरास्त एव
मुक्तावलीसुखहेराश्च भवन्ति चित्रम् ॥ ८८ ॥
श्यामात्मनस्तव कुतो नु पदाम्बुजाभ्या-
मासादितः परमशोभन एष रागः ।
किं वा नमत्सुरकिरीट मणेरुता हो
संवाहनेषु कमलाकरपल्लवाभ्याम् ॥ ८९ ।
दानक्रियाधरितकल्पकवृक्षमूर्ध-
न्यासेन तत्किसलयोत्करतः किमाहो ।
दैत्यारिनाथमथनक्रमणे तदास्य-
निष्यन्दमानबहुलक्षतजप्रवाहात् ॥ ९० ॥
मुक्तिप्रदं महितकान्तियुतं समस्त -
सम्पत्रं च विपदां हरणप्रवीणम् ।
ऋष्यङ्गनाधनविपन्नजयाशयानां
सङ्घट्टसंकटनिवासपदं पदं ते ॥ ९९ ॥