Proofing

2026-04-02 21:27:20 by ambuda-bot

This page has not been fully proofread.

श्रीमृन्नाथस्तोत्रम्
 
पुष्पायुधो भुवनमोहविधानदक्षं
 
चूर्णं विधाय मणिसम्पुटकद्वयान्ते ।
विन्यस्य तन्निहितवान् किमिति शङ्का-
 
मङ्करयत्यजित जानुयुगं तवेदम् ॥ ७६ ॥
नात्यायते च न च वामनतामुपेते
 
दैत्यारिनाथमणिमण्डतुलामुपेते ।
मञ्जीरनद्धमणिदीप्तिनिमग्नरूपे
 
संज्ञायतां मम मनः प्रसृते गतं ते ( ? ) ॥ ७७ ॥
 
दग्धः पुरा पुरभिदा पुनरात्मजस्ते
 
भूत्वा स पुष्पविशिखं कलयाञ्चकार ।
यद्रूपसौष्ठवमवेक्ष्य निजं निषङ्गं
 
जङ्घाद्वयं जयति ते जगद्र्यमेतत् ॥ ७८ ॥
 
कस्यापि जात्वपि निजान्वयजस्य कण्ठ-
 
स्त्वज्जङ्घया समरुचिः किमुदेष्यतीति ।
ज्ञातुं महागणकमाश्रयते शिखीन्द्रः
 
स्कन्दं न वक्ति स च शुक्कृतितन्द्रितोऽस्य ॥ ७९ ॥
 
मञ्जीर एष भवतो महनीयरूपः
 
सद्वृत्ततामुपगतः श्रवणीयशब्दः ।
 
वन्द्यः सतां च भवतीति किमत्र चित्रं
 
तादृग्गुणो न कथमस्तु सुवर्णजन्मा ॥ ८० ॥
 
त्वच्चारुरूपमणिनू पुरनिस्वनस्य
 
सादृश्यमा कलयितुं निनदे स्वकीये ।
हंसः प्रपद्य शरणं चतुराननं तं
 
तत्पत्रतामनुभजन् भजतेऽनुवेलम् ॥ ८१ ॥
 
आकर्णनीयनिनदो भृशदृश्यरूपः
 
स्पर्शान्वितो रसदवर्णनतां प्रपन्नः ।
 
सौरभ्यवानपि विभो तव नू पुरोऽयं
 
सन्तर्पणो विजयते सकलेन्द्रियाणाम् ॥ ८२ ॥
 
पादाप्रमेतदयि ते न हि वर्णयामि
 
किं तन्निमित्तमिति चेदिदमुच्यते च ।
 
तद्वर्णने कमठजातिमुपैतु लज्जां
 
तद्वंशजां तु तव मूर्ति मियं न यायात् ॥ ८३ ॥
 
२२७