Stotrarnava /272
This page has not been fully proofread.
२२६
श्रीविष्णुस्तोत्रेषु
सन्ध्यापयोधरमनोहरमम्बरं ते
संध्यानयोग्यमनिशं जनशं दधानम् ।
'वन्ध्येतरं जनयितुं जननप्रयासं
संधारयेमहि हृदन्तरनन्तकीर्ते ॥ ६९ ॥
पादारविन्दयुगलं भजतां जनानां
दूरीकृतं रचयितुं तरसा तमोऽन्धम् ।
बालः प्रभाकृदुदितः किमिहेति शङ्कां
पीताम्बरं वितनुते भवदीयमेतत् ॥ ७० ॥
चित्तं यथा विटजनस्य नितान्तरक्तं
विस्तारवच्च मतिवद्विदुषां जनानाम् ।
शाब्दं च शास्त्रमिव सूत्रगणैर्सहायैः
1.
2.
क्लृप्तं विराजतितरां भवदुत्तरीयम् ॥ ७१ ॥
ऊरुद्वयेन भवतः कृतमत्सराय [ये ]
4 [ भास्वद्विपाधिपकरा ] भुवनोत्तरेण ।
प्राणाधिका अपि गजा अपराधतोऽस्मान्
न्यूनैर्भवन्ति खलु शृङ्खलया निबद्धा: ॥ ७२ ।
स्थूणागणाश्च भवदूरुतुलाभिलाषो-
त्कर्षादुदारमपराधमवाप्तवन्तः ।
तद्दण्डनाय विधिना विहितं शिरस्सु
नैकेतनं भरमहर्दिव मुद्वहन्ति ॥ ७३ ॥
त्वक्सक्थिसाम्यकृतदोषशमाय रम्भा
विश्राण्य ते निजफलानि जितामृतानि ।
त्वत्संप्रसादजनितान्तरमोदजातं
शैत्यं तनोर्बहिरपि प्रसृतं बहन्ति ॥ ७४ ॥
अष्ठीवतोर्द्वयमनिष्टनिरासधृष्टं
निष्ट्रय निर्मलसुनीलरुचिप्रपञ्चम् ।
जङ्घरुहाम [नाम ] युतदेशयुगान्तराले
सीमावबोधनिहितोपलवद्विभाति ॥ ७५ ॥
=जनानां शं मङ्गलम्
S
सफलम्
3. भवतोऽन्तरीयम्
4. भासन्निभाधिपकरा
श्रीविष्णुस्तोत्रेषु
सन्ध्यापयोधरमनोहरमम्बरं ते
संध्यानयोग्यमनिशं जनशं दधानम् ।
'वन्ध्येतरं जनयितुं जननप्रयासं
संधारयेमहि हृदन्तरनन्तकीर्ते ॥ ६९ ॥
पादारविन्दयुगलं भजतां जनानां
दूरीकृतं रचयितुं तरसा तमोऽन्धम् ।
बालः प्रभाकृदुदितः किमिहेति शङ्कां
पीताम्बरं वितनुते भवदीयमेतत् ॥ ७० ॥
चित्तं यथा विटजनस्य नितान्तरक्तं
विस्तारवच्च मतिवद्विदुषां जनानाम् ।
शाब्दं च शास्त्रमिव सूत्रगणैर्सहायैः
1.
2.
क्लृप्तं विराजतितरां भवदुत्तरीयम् ॥ ७१ ॥
ऊरुद्वयेन भवतः कृतमत्सराय [ये ]
4 [ भास्वद्विपाधिपकरा ] भुवनोत्तरेण ।
प्राणाधिका अपि गजा अपराधतोऽस्मान्
न्यूनैर्भवन्ति खलु शृङ्खलया निबद्धा: ॥ ७२ ।
स्थूणागणाश्च भवदूरुतुलाभिलाषो-
त्कर्षादुदारमपराधमवाप्तवन्तः ।
तद्दण्डनाय विधिना विहितं शिरस्सु
नैकेतनं भरमहर्दिव मुद्वहन्ति ॥ ७३ ॥
त्वक्सक्थिसाम्यकृतदोषशमाय रम्भा
विश्राण्य ते निजफलानि जितामृतानि ।
त्वत्संप्रसादजनितान्तरमोदजातं
शैत्यं तनोर्बहिरपि प्रसृतं बहन्ति ॥ ७४ ॥
अष्ठीवतोर्द्वयमनिष्टनिरासधृष्टं
निष्ट्रय निर्मलसुनीलरुचिप्रपञ्चम् ।
जङ्घरुहाम [नाम ] युतदेशयुगान्तराले
सीमावबोधनिहितोपलवद्विभाति ॥ ७५ ॥
=जनानां शं मङ्गलम्
S
सफलम्
3. भवतोऽन्तरीयम्
4. भासन्निभाधिपकरा