Stotrarnava /270
This page has not been fully proofread.
२२४
श्रीविष्णुस्तोत्रेषु
एक: सुधीरिव गृहीतसुदर्शनस्ते
बाहुः परो धनद्वत्समुपेतशङ्खः ।
पद्मान्वितोऽन्यतम इभ्यगृहोपमश्च
शेषो महागदतयर्षभशैलतुल्यः ( ? ) ॥ ५४ ॥
धारासहस्रकृतदानववंशदाहं
दोषानुषङ्गपरिवृद्धगुणं तवेदम् ।
चक्रं निरस्तभवचक्रमुपाश्रिताना-
मास्माकरक्षणमनुक्षणमादधातु ॥ ५५ ॥
अब्जन्मनैव न हि केवलमापदात्यात् (?)
अध्याप्तवान् सहजताममृतद्युतेर्यः ।
सोऽयं भुजाग्रवसतिस्तव पाञ्चजन्यः
श्रयेत मन्द्रनिनदो मदसुप्रयाणे ॥ ५६ ॥
पङ्केरुहं करगतं तव पाणिपाद-
नेत्राननं युधि विजेतुमुपागतेषु ।
एकं गृहीतमिव भाति सरोरुहेषु
भीत्या प्रधाव्य पतितानि वने परणि ॥ ५७ ॥
कौमोदकी त्वसमयेष्वपि रोषभारत्
दैत्यान् समेत्य सतृणं निहनिष्यतीति ।
मत्वा ततः किमु निरोद्धुमयि त्वया सौ
एकेन पाणिकमलेन धृता सदास्ते ॥ ५८ ॥
रोमावलिस्तव विराजति हारयष्टयो -
मध्यस्थता विमलयोर्मधुपस्रगाभा ।
गङ्गाप्रवाहयुगलस्य गतोऽन्तरालं
ऊर्ध्वं प्रवृत्त इव भानुसुताप्रवाहः ॥ ५९ ॥
अभ्यर्थितानि ददती भजतां फलानि
नाभ्यालवालत उदेत्य रुगम्बुपूर्णात् ।
आरूढवत्युदरदेशमतीत्य वक्षो
रोमालिकल्पलतिका तव भासते सा ॥ ६० ॥
नाभिप्रहिर्विमलया प्रभया पयोभि-
रापूरितस्तव विभाति गभीररूपः ।
1.
यमुनाप्रवाहः कृष्णवर्णः
श्रीविष्णुस्तोत्रेषु
एक: सुधीरिव गृहीतसुदर्शनस्ते
बाहुः परो धनद्वत्समुपेतशङ्खः ।
पद्मान्वितोऽन्यतम इभ्यगृहोपमश्च
शेषो महागदतयर्षभशैलतुल्यः ( ? ) ॥ ५४ ॥
धारासहस्रकृतदानववंशदाहं
दोषानुषङ्गपरिवृद्धगुणं तवेदम् ।
चक्रं निरस्तभवचक्रमुपाश्रिताना-
मास्माकरक्षणमनुक्षणमादधातु ॥ ५५ ॥
अब्जन्मनैव न हि केवलमापदात्यात् (?)
अध्याप्तवान् सहजताममृतद्युतेर्यः ।
सोऽयं भुजाग्रवसतिस्तव पाञ्चजन्यः
श्रयेत मन्द्रनिनदो मदसुप्रयाणे ॥ ५६ ॥
पङ्केरुहं करगतं तव पाणिपाद-
नेत्राननं युधि विजेतुमुपागतेषु ।
एकं गृहीतमिव भाति सरोरुहेषु
भीत्या प्रधाव्य पतितानि वने परणि ॥ ५७ ॥
कौमोदकी त्वसमयेष्वपि रोषभारत्
दैत्यान् समेत्य सतृणं निहनिष्यतीति ।
मत्वा ततः किमु निरोद्धुमयि त्वया सौ
एकेन पाणिकमलेन धृता सदास्ते ॥ ५८ ॥
रोमावलिस्तव विराजति हारयष्टयो -
मध्यस्थता विमलयोर्मधुपस्रगाभा ।
गङ्गाप्रवाहयुगलस्य गतोऽन्तरालं
ऊर्ध्वं प्रवृत्त इव भानुसुताप्रवाहः ॥ ५९ ॥
अभ्यर्थितानि ददती भजतां फलानि
नाभ्यालवालत उदेत्य रुगम्बुपूर्णात् ।
आरूढवत्युदरदेशमतीत्य वक्षो
रोमालिकल्पलतिका तव भासते सा ॥ ६० ॥
नाभिप्रहिर्विमलया प्रभया पयोभि-
रापूरितस्तव विभाति गभीररूपः ।
1.
यमुनाप्रवाहः कृष्णवर्णः