Stotrarnava /263
This page has not been fully proofread.
श्रीमृन्नाथस्तोत्रम्
बद्धः परिकरस्तेन मोक्षाभिगमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ ९ ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् ।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥ १० ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
२१७
आयुष्यं बलमारोग्यं यशोवृद्धिं श्रियावहम् [श्रियं वहेत् ] ॥ ११ ॥
॥ इति प्रह्लादकृतं श्रीहर्यष्टकं सम्पूर्णम् ॥
१६. ॥ अथ श्रीमृन्नाथस्तोत्रम् ॥
श्रीमत् [ भू ] समेत मृदधीश हरे मुरारे
पादाम्बुजं विजयते परमाद्भुतं ते ।
यस्मिन् जना दृढतरात्मनिबन्धनेन
मुक्तिं प्रयान्ति सुनिरस्त समस्तबन्धाः ॥ १ ॥
रूपाणि ते बहुविधानि विभो भवन्ती-
त्याहुः परापरविदो मुनयः शुकाद्याः ।
तेष्वेकमप्यलमबोधहताशयानाम्
अस्मादृशां नयनयोरयनं न याति ॥ २ ॥
यद्रपदर्शन सुखानुबुभूषुलोकान्
उच्चैस्तरामनुजिघृक्षुरुपात्तहार्दः ।
हित्वा पयोजलनिधिं युतमृन्निकेतम्
अध्यूषिवानसि विभो प्रतिमामिषेण ॥ ३ ॥
तत्ते वपुर्भुवनचारु निरीक्ष्य कर्तुं
निष्पापतां वसुवतां (?) च मया न शक्यम् ।
प्राग्जन्मनिर्मित शुभेतरकर्मणा य-
द्भाग्यागते : सुदृढसंघटितः कवाटः ॥ ४ ॥
अन्यानि पापशमनानि सुखावहानि
कर्माणि सन्त्यलमपेक्षित साधनानि ।
तेषां विधिः पटुतरैरपि यत्नसाध्यः
कायं क वा विवशभावमुपागतोऽहम् ॥ ५ ॥
त्वद्रूपवर्णनमघान्तसुखाप्तिहेतुः
पुंसां भवेद्भुवि यथामतिवाग्विलासम् ।
बद्धः परिकरस्तेन मोक्षाभिगमनं प्रति ।
सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् ॥ ९ ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम् ।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥ १० ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
२१७
आयुष्यं बलमारोग्यं यशोवृद्धिं श्रियावहम् [श्रियं वहेत् ] ॥ ११ ॥
॥ इति प्रह्लादकृतं श्रीहर्यष्टकं सम्पूर्णम् ॥
१६. ॥ अथ श्रीमृन्नाथस्तोत्रम् ॥
श्रीमत् [ भू ] समेत मृदधीश हरे मुरारे
पादाम्बुजं विजयते परमाद्भुतं ते ।
यस्मिन् जना दृढतरात्मनिबन्धनेन
मुक्तिं प्रयान्ति सुनिरस्त समस्तबन्धाः ॥ १ ॥
रूपाणि ते बहुविधानि विभो भवन्ती-
त्याहुः परापरविदो मुनयः शुकाद्याः ।
तेष्वेकमप्यलमबोधहताशयानाम्
अस्मादृशां नयनयोरयनं न याति ॥ २ ॥
यद्रपदर्शन सुखानुबुभूषुलोकान्
उच्चैस्तरामनुजिघृक्षुरुपात्तहार्दः ।
हित्वा पयोजलनिधिं युतमृन्निकेतम्
अध्यूषिवानसि विभो प्रतिमामिषेण ॥ ३ ॥
तत्ते वपुर्भुवनचारु निरीक्ष्य कर्तुं
निष्पापतां वसुवतां (?) च मया न शक्यम् ।
प्राग्जन्मनिर्मित शुभेतरकर्मणा य-
द्भाग्यागते : सुदृढसंघटितः कवाटः ॥ ४ ॥
अन्यानि पापशमनानि सुखावहानि
कर्माणि सन्त्यलमपेक्षित साधनानि ।
तेषां विधिः पटुतरैरपि यत्नसाध्यः
कायं क वा विवशभावमुपागतोऽहम् ॥ ५ ॥
त्वद्रूपवर्णनमघान्तसुखाप्तिहेतुः
पुंसां भवेद्भुवि यथामतिवाग्विलासम् ।