Proofing

2026-04-23 05:06:58 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>२१६ श्रीविष्णुस्तोत्रेषु</ignore>
<verse>विवस्वत इति ह्येतद्वाक्यं तत्रैव संस्थितम् ।
चक्रमादायेति वाक्यं स्थितं यत्तदथर्वणे ॥ १४ ॥</verse>
<verse>तथैव पाञ्चजन्यं च पठ्यते वेदवित्तमैः ।
अग्निनेति तथा वाक्यं तत्रैव परिपठ्यते ॥ १५ ॥</verse>
<verse>इत्येवं तप्तचक्रस्य धारणं श्रुतिचोदितम् ।
तस्मात् सर्वप्रयत्नेन धार्यं मोक्षफलेप्सुभिः ॥ १६ ॥</verse>
<verse>ब्रह्मचारी गृही वानप्रस्थ इत्याश्रमैस्तथा ।
ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चापि तथा परैः ॥ १७ ॥</verse>
<verse>अनुलोमैर्विलोमैश्च भक्तिश्रद्धासमन्वितैः ।
सुवासिनीभिर्नारीभिर्विधवाभिस्तथैव च ॥ १८ ॥</verse>
<verse>विष्णोः सुदर्शनं धार्यं वेदवेदान्तगोचरम् ।
इति सौदर्शनं स्त्रोत्रमकरोद्रामदेशिकः ॥ १९ ॥</verse>
<trailer text="14_END">॥ इति श्री सुदर्शनस्तोत्रं सम्पूर्णम् ॥</trailer>
<footnote text="15_START">१५. ॥ अथ श्रीहर्यष्टकम् ॥</footnote>
<verse>हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥</verse>
<verse>स गङ्गा स गया सेतुः स काशी स च पुष्करः ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥</verse>
<verse>वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत् कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३॥</verse>
<verse>पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४ ॥</verse>
<verse>गवां कोटिसहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५ ॥</verse>
<verse>अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६॥</verse>
<verse>ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७ ॥</verse>
<verse>प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८ ॥</verse>
</page>