Proofing

2026-04-02 21:27:17 by ambuda-bot

This page has not been fully proofread.

२१६
 
श्रीविष्णुस्तोत्रेषु
 
विवस्वत इति ह्येतद्वाक्यं तत्रैव संस्थितम् ।
चक्रमादायेति वाक्यं स्थितं यत्तदथर्वणे ॥ १४ ॥
 
तथैव पाञ्चजन्यं च पठ्यते वेदवित्तमैः ।
अग्निनेति तथा वाक्यं तत्रैव परिपठ्यते ॥ १५ ॥
इत्येवं तप्तचक्रस्य धारणं श्रुतिचोदितम् ।
 
तस्मात् सर्वप्रयत्नेन धार्यं मोक्षफलेप्सुभिः ॥ १६ ॥
ब्रह्मचारी गृही वानप्रस्थ इत्याश्रमैस्तथा ।
ब्राह्मणैः क्षत्त्रियैर्वैश्यैः शूद्रैश्चापि तथा परैः ॥ १७ ॥
अनुलोमैर्विलो मैश्च भक्तिश्रद्धासमन्वितैः ।
सुवासिनीभिर्नारीभिर्विधवाभिस्तथैव च ॥ १८ ॥
विष्णोः सुदर्शनं धार्यं वेदवेदान्तगोचरम् ।
इति सौदर्शनं स्त्रोत्रमकरोद्रामदेशिकः ॥ १९ ॥
॥ इति श्री सुदर्शनस्तोत्रं सम्पूर्णम् ॥
 
१५. ॥ अथ श्रीहर्यष्टकम् ॥
हरिर्हरति पापानि दुष्टचिंत्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥
स गङ्गा स गया सेतुः स काशी स च पुष्करः ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत् कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४ ॥
गवां कोटिसहस्राणि हेमकन्या सहस्रकम् ।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५ ॥
अश्वमेधैर्महायज्ञैर्नरमेधैस्तथैव च ।
 
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६॥
 
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतास्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७ ॥
प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८ ॥