Proofing

2026-04-23 04:56:58 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote text="14_START">
१४. ॥ अथ श्री सुदर्शनस्तोत्रम् ॥
</footnote>
<verse>
श्रीमन्नारायणं देवं ब्रह्मरुद्रादिवन्दितम् ।

सर्वलोकनियन्तारं नमामि पुरुषोत्तमम् ॥ १ ॥
 
</verse>
<verse>
श्रीमद्रामानुजाचार्यपौत्रस्तत्पादसंश्रितः ।

श्रीरङ्गार्यगुरोः पुत्रः श्रीरामाह्वय देशिकः ॥ २ ॥
 
</verse>
<verse>
श्रीबावाधूलकुलोद्भूतस्तप्तचक्रविधायकम् ।
 

स्तोत्रं सौदर्शनं चक्रे वेदवेदान्तगोचरम् ॥ ३ ॥
 
</verse>
<verse>
पवित्रं त इति प्रोक्तं वेदेषु त्रिषु च स्थितम् ।

चरणं तैत्तिरीये तु ........
 
1।1811
 
<ellipsis>... ... ... ... ... ...</ellipsis> ॥ ४ ॥</verse>
<verse>
लोकस्य द्वारमित्येतद्वाक्यं तत्रैव चोदितम् ।
 

चमूषु चेति यद्वाक्यं तत्रोक्तमृचि साम्नि च ॥ ५ ॥
 
</verse>
<verse>
मैत्रावरुणशाखायां पठ्यते सुमहात्मभिः ।
 

चक्रं बिभर्तीत्युयृग्वेदे खिले सम्यक् प्रकीर्तितम् ॥ ६ ॥
 
</verse>
<verse>
अथर्वणोपनिषदि ह्येभिर्वयमिति स्मृतम् ।
 

ऋचि पौष्कलशाखायां प्रतिविष्णो इतीरितम् ॥ ७ ॥
 
</verse>
<verse>
धृतोर्ध्वपुण्ड्रमिति यदथ शाखोदितं हि तत् ।

दक्षिणे त्विति यद्वाक्यं महोपनिषदि स्थितम् ॥ ८ ॥
</verse>
<verse>
वषट् इति च यद्वाक्यं कठवल्ल्यां तदीरितम् ।

तापनीये तु तं प्राप्तमिति मन्त्रमुदाहृतम् ॥ ९॥
</verse>
<verse>
यज्ञोपवीती त्यारभ्य ये वा शून्यं त इत्यपि ।

सुदर्शनोपनिषदि वेदविद्भिस्तु पठ्यते ॥ १० ॥
 
</verse>
<verse>
तस्माद्ब्राह्मणवाक्यं तु श्वेताश्वतरचोदितम् ।

तत्रोपवीतादि पञ्च कथ्यते सुमहात्मभिः ॥ ११ ॥
 
</verse>
<verse>
कात्यायनेति होवाचेत्येवं शतपथेरितम् ।
 

तत्रैव कथितं चक्रं द्विभुजे धार्यमित्यपि ॥ १२ ॥
 
</verse>
<verse>
तत्रैव दशपर्यायैः कथितं चक्रधारणम् ।
 

देवास इति वाक्यं च तत्रैव परिकथ्यते ॥ १३ ॥
 
</verse>
</page>