Proofing

2026-04-02 21:27:17 by ambuda-bot

This page has not been fully proofread.

१४. ॥ अथ श्री सुदर्शनस्तोत्रम् ॥
श्रीमन्नारायणं देवं ब्रह्मरुद्रादिवन्दितम् ।
सर्वलोकनियन्तारं नमामि पुरुषोत्तमम् ॥ १ ॥
 
श्रीमद्रामानुजाचार्यपौत्रस्तत्पादसंश्रितः ।
श्रीरङ्गार्यगुरोः पुत्रः श्रीरामाह्वय देशिकः ॥ २ ॥
 
श्रीबाधूलकुलोद्भूतस्तप्तचक्रविधायकम् ।
 
स्तोत्रं सौदर्शनं चक्रे वेदवेदान्तगोचरम् ॥ ३ ॥
 
पवित्रं त इति प्रोक्तं वेदेषु त्रिषु च स्थितम् ।
चरणं तैत्तिरीये तु ........
 
1।1811
 
लोकस्य द्वारमित्येतद्वाक्यं तत्रैव चोदितम् ।
 
चमूषु चेति यद्वाक्यं तत्रोक्तमृचि साम्नि च ॥ ५ ॥
 
मैत्रावरुणशाखायां पठ्यते सुमहात्मभिः ।
 
चक्रं बिभर्तीत्युग्वे खिले सम्यक् प्रकीर्तितम् ॥ ६ ॥
 
अथर्वणोपनिषदि ह्येभिर्वयमिति स्मृतम् ।
 
ऋचि पौष्कलशाखायां प्रतिविष्णो इतीरितम् ॥ ७ ॥
 
धृतोर्ध्वपुण्डमिति यदथ शाखोदितं हि तत् ।
दक्षिणे त्वति यद्वाक्यं महोपनिषदि स्थितम् ॥ ८ ॥
वषट् इति च यद्वाक्यं कठवल्ल्यां तदीरितम् ।
तापनीये तु तं प्राप्तमिति मन्त्रमुदाहृतम् ॥ ९॥
यज्ञोपवीती त्यारभ्य ये वा शून्यं त इत्यपि ।
सुदर्शनोपनिषदि वेदविद्भिस्तु पठ्यते ॥ १० ॥
 
तस्माद्ब्राह्मणवाक्यं तु श्वेताश्वतरचोदितम् ।
तत्रोपवीतादि पञ्च कथ्यते सुमहात्मभिः ॥ ११ ॥
 
कात्यायनेति होवाचेत्येवं शतपथेरितम् ।
 
तत्रैव कथितं चक्रं द्विभुजे धार्यमित्यपि ॥ १२ ॥
 
तत्रैव दशपर्यायैः कथितं चक्रधारणम् ।
 
देवास इति वाक्यं च तत्रैव परिकथ्यते ॥ १३ ॥