Proofing

2026-04-02 21:27:02 by ambuda-bot

This page has not been fully proofread.

३. ॥ अथ श्रीदशावतारस्तोत्रम् ॥
यो नाम पूर्वमवतीर्य ररक्ष विश्व
फेनावगाढचलदूर्मि भरेऽम्बुराशौ ।
केनाहमस्मि परवानरविन्दनेत्रं
 
मीनाकृतिं मधुनिषूदनमन्तरेण ॥ १ ॥
लोकं बिभर्ति सकलं कमठो भवन् यो
नाकं परेण परमे गगने विदीप्तः ।
साकं रमादिमहिषीगतबन्धनित्यैः
 
शोकं स मे हरतु संसृतिज मुकुन्दः ॥ २ ॥
उर्वीतलोद्धरणकृत्यपटिष्ठभावा
 
दर्वीकराशनरथस्य घनाञ्जनाभा ।
 
गुर्वी तृतीयजनिरद्भुतकोलरूपा
 
कुर्वीत नः कुशलमिन्दुसमानदंष्ट्रा ॥ ३ ॥
 
काया
 
परमया कृपया प्रकोपो
 
माया [मये कनकनामनि दानवेन्द्रे ] ।
 
सायाह्नकाल उदितः सरसीरुहाक्षः
 
पायान्नृसिंहतनुरच्युत एष भक्तान् ॥ ४ ॥
 
गर्वाकरेण बलिनापहृतां त्रिलोकीं
 
खर्वाकृतिस्तमपहृत्य तु वञ्चयित्वा ।
 
स्वर्वासवैरिगुरुणा प्रभवेऽमराणां
 
दुर्वारमस्तु भविकांय ददद्धरिर्वः ॥ ५ ॥
 
यो भार्गवः स्वपितृसंहरणोत्थकोपः
 
1
 
1.
 
• हतवान् स पातु ॥ ६ ॥
 
॥ इति श्रीदशावतारस्तोत्रं सम्पूर्णम् ॥
 
कयाधुः - हिरण्यकशिपोः भार्या, तस्याः अपत्यंपुमान् कायाधुः प्रह्लादः