Proofing

2026-04-09 06:55:39 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६६
 
श्रीविष्णुस्तोत्रेषु
 
</ignore>
<verse>
राजेन्द्रो रणरङ्गराजविनुता '<ref>1</ref>नेकासुराभासुरा-
 

कारो रावणकोटिखण्डनपटुः कोदण्डदीक्षागुरुः ।
 

सीतेशः सुरसज्जनामृतकरो रामावतारो हरिः
 

श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ७ ॥
</verse>
<verse>
कालिन्दीजलभेदनो बहुभुजो भूषासमुद्भासुरः
 

प्रध्वंसी मुसलायुधो हलधरो नीलाम्बरो निर्मलः ।

लावण्या<ref>2</ref>पतिरेवतीपतिरसौ रामावतारो हरिः
 

श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ८ ॥
 
</verse>
<verse>
धर्मज्ञत्रिपुराधिनाथवनिताधर्मोपदेष्टा च त-
"

<ref>3</ref>
त्पातिव्रत्यविशेषभञ्जनपरो वेदान्तवेद्यः सदा ।

दैत्यव्रातविनाशनादिचतुरो बुद्धावतारो हरिः
 

श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ९ ॥
</verse>
<verse>
म्लेच्छत्रातविनाशकः कलियुगान्तेऽश्वाधिरूढो महा-

मायावी बहुभानुकोटिसदृशो भीमांशुचक्रायुधः ।

यश्चाङ्गीकृतकल्किरूपविभवो भूमौ भविष्यान्वयः
 

श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १० ॥
</verse>
<trailer>
॥ इति श्रीदशावतारमङ्गलाशासनं सम्पूर्णम् ॥
 
</trailer>
<footnote>
1.
 
आकारो यस्य ।
 
अनेकासुराणां आभां -कान्तितिंसुंश्च राति
असू
सूंश्च राति गृह्णातीति तादृश:
 
शः
आकारो यस्य ।</footnote>
<footnote>
2. अप्पतिः = अम्बुधि:
 
धिः</footnote>
<footnote>
3. पुरा किल तारकपुत्राः ब्रह्मणो लब्धवराः रजत हिरण्यायो मय मयपुराधिनाथा

हताश्च सन्तः लयाणमपि लोकानां महदस्वास्थ्यं चक्रुः । तेन दूयमानमानसाः

सुराः मुनयश्च भगवन्तं तद्वृत्तान्तं निवेदयामासुः । तद्दण्डनाय वासुदेवः

स्त्रीषु दोषं विना तद्भर्तृदण्डनमशक्यं पश्यन् उपदेशद्वारा तद्वनिताचित्तकालुष्याय

बुद्धोऽवततारेत्याख्यायिकात्रानुसन्धेया ।
 
</footnote>
</page>