Proofing

2026-04-02 21:27:01 by ambuda-bot

This page has not been fully proofread.

१६६
 
श्रीविष्णुस्तोत्रेषु
 
राजेन्द्रो रणरङ्गराजविनुता 'नेकासुराभासुरा-
 
कारो रावणकोटिखण्डनपटुः कोदण्डदीक्षागुरुः ।
 
सीतेशः सुरसज्जनामृतकरो रामावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ७ ॥
कालिन्दीजलभेदनो बहुभुजो भूषासमुद्भासुरः
 
प्रध्वंसी मुसलायुधो हलधरो नीलाम्बरो निर्मलः ।
लावण्यापतिरेवतीपतिरसौ रामावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ८ ॥
 
धर्मज्ञत्रिपुराधिनाथवनिताधर्मोपदेष्टा च त-
"त्पातिव्रत्यविशेषभञ्जनपरो वेदान्तवेद्यः सदा ।
दैत्यव्रातविनाशनादिचतुरो बुद्धावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ९ ॥
म्लेच्छत्रातविनाशकः कलियुगान्तेऽश्वाधिरूढो महा-
मायावी बहुभानुकोटिसदृशो भीमांशुचक्रायुधः ।
यश्चाङ्गीकृतकल्किरूपविभवो भूमौ भविष्यान्वयः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १० ॥
॥ इति श्रीदशावतारमङ्गलाशासनं सम्पूर्णम् ॥
 
1.
 
आकारो यस्य ।
 
अनेकासुराणां आभां कान्ति असुंश्च राति
असूश्च राति गृह्णातीति तादृश:
 
2. अप्पतिः = अम्बुधि:
 
3. पुरा किल तारकपुत्राः ब्रह्मणो लब्धवराः रजत हिरण्यायो मय पुराधिनाथा
हताश्च सन्तः लयाणमपि लोकानां महदस्वास्थ्यं चक्रुः । तेन दूयमानमानसाः
सुराः मुनयश्च भगवन्तं तद्वृत्तान्तं निवेदयामासुः । तद्दण्डनाय वासुदेवः
स्त्रीषु दोषं विना तद्भर्तृदण्डनमशक्यं पश्यन् उपदेशद्वारा तद्वनिताचित्तकालुष्याय
बुद्धोऽवततारेत्याख्यायिकात्रानुसन्धेया ।