Proofing

2026-04-02 21:27:01 by ambuda-bot

This page has not been fully proofread.

२.
 
॥ अथ श्रीदशावतारमङ्गलाशासनम् ॥
 
आदावम्बुजसंभवादिविनुतः शान्तोऽच्युतः शाश्वतः
 
संफुल्लामल पुण्डरीकनयनः पुण्यः पुराणः पुमान् ।
लोकेशः श्रुतिचोरसोमकहरो' मत्स्यावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ १ ॥
सप्तद्वीपकुलाचलेन्द्र जलधि ' स्तोमाभिसंक्रान्तभू-
भारालीढफणीन्द्रमन्दरधरो मन्दारमालार्चितः ।
 
भावज्ञो बहुचक्रलाञ्छिततनुः कूर्मावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ २ ॥
 
लीला लोडित सर्वसागरजलः सम्पूर्णचन्द्रप्रभो
 
माक्षासुरखण्डनो भुजगदः चक्राङ्कितः सन्ततम् ।
 
दंष्ट्रा प्रोद्धृतमेदिनीभयहरः क्रोडावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ३ ॥
 
कुन्देन्दुस्फटिकप्रभो बहुभुजो भूषासहस्रोज्ज्वलो
 
दैत्येन्द्रोदरदारणेऽतिनिपुणः स्तम्भोद्भवो भीषणः ।
प्रह्लादार्तिहरोदयो नरमृगाकारावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ४ ॥
 
धातृक्षालितपादपङ्कजभवस्रोतोमहा 'शाम्बरः
 
प्रक्षालीकृतपादपद्मयुगलो बालो जगज्जीवनः ।
 
भिक्षार्थी बलिदर्पहा पटुवटुः 'खर्वावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ५ ॥
सद्यःखण्डितराजमण्डलशरीरोद्भूतरक्तापगा-
 
[संसिक्ताखिलभूतलः] पितृवचःसम्पालने निष्ठितः ।
 
वेदज्ञो जमदग्निजः परशुभृद्रामावतारो हरिः
 
श्रीमान् सिंहगिरीश्वरः करुणया दद्यात्सदा मङ्गलम् ॥ ६ ॥
 
1. वेदापहारकः हयग्रावापरनामा असुरः
 
4.
 
वराहावतारः
 
2. सिंहाचलः
 
5.
 
शांबरी
 
• इन्द्रजालम्
 
3.
 
स्तोमाभ
 
.
 
6.
 
वामनावतारः