Stotrarnava /210
This page has not been fully proofread.
१६४
श्रीविष्णुस्तोत्रेषु
नीलवर्णार्णवशय श्रीवल्लभ जगत्पते ।
त्रय्यन्तगीतासङ्ख्येयसन्मङ्गलगुणाकर ॥ १३ ॥
रमारमण राजीवदलचारुविलोचन ।
नित्ययौवनसौन्दर्यशील दिव्यगुणार्णव ॥ १४ ॥
वेदवेद्य विशालाक्ष विश्वभर धरापते ।
दाशार्ह देवदेवेश दामोदर दयानिधे ॥। १५ ॥
धरणीधारकाधारनिलयाधोक्षजाव्यय ।
योगिध्येय जगद्वन्द्य जगत्स्वामिन् जनार्दन ॥ १६ ॥
नारसिंह हयग्रीव हरे प्रह्लादवत्सल ।
लोकाधार पराधार आत्माधार धराधर ॥ १७ ॥
रथाङ्गपाणे सर्वेश सर्वलोकसमाश्रय ।
भूतभव्यभवन्नाथ वेङ्कट ( चलनायक ॥ १८ ॥
कृष्ण विष्णो विशालाक्ष वैजयन्तीविराजित ।
क्षीरार्णवशयानन्त शरण्याश्रितवत्सल ॥ १९ ।
सर्वात्मन् सर्वलोकेश सर्व सर्वात्मनायक ।
करुणाकर कालज्ञ सर्वलोकनियामक ॥ २० ॥
मुञ्जीकेश हृषीकेश केशिमर्दन केशव ।
नरकान्तक काकुत्स्थ कालात्मन् कालपाचक ॥ २१ ॥
करीन्द्रवरदानन्द श्रीधर श्रीनिकेतन ।
निरवद्य परब्रह्मन् सर्वलोकपदाश्रय ॥ २२ ॥
नाथसेव्यपदाम्भोज वकुलाभरणाश्रय ।
रामारामाभिरामाङ्ग रामकृष्णेति कीर्तये ॥ २३ ॥
श्रीमद्वेङ्कटनाथमादिपुरुषं पूर्ण परं शाश्वतं
श्रीनाथं शरणागतार्तिहरणं नारायणं संश्रये ।
कृष्णं विष्णुमनन्तमच्युतमजं गोविन्दमिन्दीवर-
श्यामं नन्दकशङ्खचक्ररुचिरं ध्यायन् भजे कीर्तये ॥ २४ ॥
येनैतत्पठ्यते नाम्नामष्टाविंशोत्तरं शतम् ।
अनिष्टपक्षक्षपणमिष्टावाप्तिरवाप्यते ॥ २५ ॥
॥ इति श्रीनाममौक्तिकमाला सम्पूर्णा ॥
1. रामायाः आरामः श्रीनिवासः