Stotrarnava /192
This page has been fully proofread once and needs a second look.
<page>
<ignore>१४६
श्रीशिवस्तोत्रेषु
</ignore>
<verse>अपि कुशलिनी प्रेतावासस्थली सहवासिनः
प्रमथपतयः कच्चिज्जीर्णः सुखी किमु श<error>क्क</error><fix>ङ्क</fix>रः ।
अपि च सुलभा भिक्षावृत्तिर्जगत्त्रयनाथ ते
न खलु शिथिलप्रान्तः किं ते गजाजिनकम्बलः ॥ ३३ ॥
</verse>
<verse>भो भो कैतकपुष्प सौरभनिवेधे खेदं वृथा मा कृथाः
दृष्ट्वा मूर्ध्नि महेश्वरस्य रचितामर्कप्रसूनावलिम् ।
अस्थिष्वाभरणस्पृहां विदधतः <ref>1</ref><delete>क्षारा </delete><add>[भस्मा] </add>नुलिप्ताकृतेः
नग्नीभूय च नृत्यतोऽस्य चरितं सर्वं सखे तादृशम् ॥ ३४ ॥
</verse>
<verse>भवद्भवनदेहलीनिकटतण्डुदण्डाहति-
त्रुटन्मकुट कोटिभिर्मखवदादिभिर्भूयते ।
भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकों
कीं
किमित्यमरसम्पदं प्रमथनाथ नाथामहे ॥ ३५ ॥
</verse>
<verse>अर्थानर्थनिरूपणव्यसनितामाढ्य स्तुतिव्यग्रता-
मेणाक्षीकुचलालन प्रणयितामद्यापि वर्तामहे ।
त्वद्ध्यानव्यवधानहेतुषु मनस्त्वच्चाटुविघ्नेषु वा
त्वत्पूजाविधुरेषु कर्मसु करः श्रीकण्ठ नोत्कण्ठते ॥ ३६ ॥
</verse>
<verse>वासः शुभ्रमृतुर्वसन्त समयः पुष्पं शरन्मल्लिका
<delete>धावन्तः </delete><add>[धानुष्कः]</add> कुसुमायुधः परिमलः कास्तूरिकास्त्रं <add>( ? ) </add>धनुः ।
वाणी तर्क सोज्ज्वला प्रियतमा श्यामा वयो यौवनं
मार्गः शाङ्कर एव पञ्चमलया गीतिः कविर्बि<error>ह्ल</error><fix>ल्ह</fix>णः ॥ ३७ ॥
</verse>
<verse>ये बिल्हह्लणाह्वयकवीश्वरसम्प्रणीता-
मेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति ।
ते <ref>2</ref>प्राप्नुवन्ति पुरुषायुषमात्मविद्या-
मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ ३८ ॥
</verse>
<verse><ref>3</ref>एतद्ग्रन्थसहस्रशाणकषणत्रुस्चट्यत्कलङ्ककैर्गिरा-
मुल्लासःसैः कथयन्ति बिल्हणकविः तेष्वेव संनह्यति ।
बिन्दुद्वन्द्वतरङ्गिताग्निसरणिः कर्ता शिरोबिन्दुकं
कर्मेति क्रमशिक्षितान्वयकलाः ये के च तेभ्यो नमः ॥ ३९ ॥
</verse>
<trailer>॥ इति श्रीबिल्हणस्तवः सम्पूर्णः ॥
</trailer>
<footnote>1. भस्माङ्गरागाकृतेः, रक्षानुलिप्ताकृतेः । </footnote>
<footnote>2. प्राप्नुवन्तु </footnote>
<footnote>3. नायं श्लोकः बिल्हणस्य
</footnote>
</page>
<ignore>१४६
<verse>अपि कुशलिनी प्रेतावासस्थली सहवासिनः
प्रमथपतयः कच्चिज्जीर्णः सुखी किमु श<error>क्क</error><fix>ङ्क</fix>रः ।
अपि च सुलभा भिक्षावृत्तिर्जगत्त्रयनाथ ते
न खलु शिथिलप्रान्तः किं ते गजाजिनकम्बलः ॥ ३३ ॥
<verse>भो भो कैतकपुष्प सौरभनि
दृष्ट्वा मूर्ध्नि महेश्वरस्य रचितामर्कप्रसूनावलिम् ।
अस्थिष्वाभरणस्पृहां विदधतः <ref>1</ref><delete>क्षारा
नग्नीभूय च नृत्यतोऽस्य चरितं सर्वं सखे तादृशम् ॥ ३४ ॥
<verse>भवद्भवनदेहलीनिकटतण्डुदण्डाहति-
त्रुटन्मकुट
भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचि
किमित्यमरसम्पदं प्रमथनाथ नाथामहे ॥ ३५ ॥
<verse>अर्थानर्थनिरूपणव्यसनितामाढ्य
मेणाक्षीकुचलालन
त्वद्ध्यानव्यवधानहेतुषु मनस्त्वच्चाटुविघ्नेषु वा
त्वत्पूजाविधुरेषु कर्मसु करः श्रीकण्ठ नोत्कण्ठते ॥ ३६ ॥
<verse>वासः शुभ्रमृतुर्वसन्त
<delete>धावन्तः </delete><add>[धानुष्कः]</add> कुसुमायुधः परिमलः कास्तूरिकास्त्रं
वाणी तर्क
मार्गः शाङ्कर एव पञ्चमलया गीतिः कविर्बि<error>ह्ल</error><fix>ल्ह</fix>णः ॥ ३७ ॥
<verse>ये बिल्हह्लणाह्वयकवीश्वरसम्प्रणीता-
मेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति ।
ते <ref>2</ref>प्राप्नुवन्ति पुरुषायुषमात्मविद्या-
मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ ३८ ॥
<verse><ref>3</ref>एतद्ग्रन्थसहस्रशाणकषणत्रु
मुल्ला
बिन्दुद्वन्द्वतरङ्गिताग्निसरणिः कर्ता शिरोबिन्दुकं
कर्मेति क्रमशिक्षितान्वयकलाः ये के च तेभ्यो नमः ॥ ३९ ॥
<trailer>॥ इति श्रीबिल्हणस्तवः सम्पूर्णः ॥
<footnote>1. भस्माङ्गरागाकृतेः, रक्षानुलिप्ताकृतेः ।
<footnote>2. प्राप्नुवन्तु
<footnote>3. नायं श्लोकः बिल्हणस्य
</page>