Stotrarnava /192
This page has not been fully proofread.
१४६
श्रीशिवस्तोत्रेषु
अपि कुशलिनी प्रेतावासस्थली सहवासिनः
प्रमथपतयः कचिज्जीर्णः सुखी किमु शक्करः ।
अपि च सुलभा भिक्षावृत्तिर्जगत्त्रयनाथ ते
न खलु शिथिलप्रान्तः किं ते गजाजिनकम्बलः ॥ ३३ ॥
भो भो कैतकपुष्प सौरभनिवे खेदं वृथा मा कृथाः
दृष्ट्वा मूर्ध्नि महेश्वरस्य रचितामर्कप्रसूनावलिम् ।
अस्थिष्वाभरणस्पृहां विदधतः क्षारा [भस्मा] नुलिप्ताकृतेः
नग्नीभूय च नृत्यतोऽस्य चरितं सर्वं सखे तादृशम् ॥ ३४ ॥
भवद्भवनदेहलीनिकटतण्डुदण्डाहति-
त्रुटन्मकुट कोटिभिर्मखवदादिभिर्भूयते ।
भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकों
किमित्यमरसम्पदं प्रमथनाथ नाथामहे ॥ ३५ ॥
अर्थानर्थनिरूपणव्यसनितामाढ्य स्तुतिव्यग्रता-
मेणाक्षीकुचलालन प्रणयितामद्यापि वर्तामहे ।
त्वद्ध्यानव्यवधानहेतुषु मनस्त्वच्चाटुविघ्नेषु वा
त्वत्पूजाविधुरेषु कर्मसु करः श्रीकण्ठ नोत्कण्ठते ॥ ३६ ॥
वासः शुभ्रमृतुर्वसन्त समयः पुष्पं शरन्मल्लिका
धावन्तः [धानुष्कः] कुसुमायुधः परिमलः कास्तूरिकात्रं ( ? ) धनुः ।
वाणी तर्क सोज्ज्वला प्रियतमा श्यामा वयो यौवनं
मार्गः शाङ्कर एव पञ्चमलया गीतिः कविर्बिणः ॥ ३७ ॥
बिल्हणावीश्वरसम्प्रणीता-
मेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति ।
ते प्राप्नुवन्ति पुरुषायुषमात्मविद्या-
मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ ३८ ॥
एतद्ग्रन्थसहस्रशाणकषणत्रुस्चत्कलङ्कगिरा-
मुल्लासः कथयन्ति बिल्हणकविः तेष्वेव संनह्यति ।
बिन्दुद्वन्द्वतरङ्गिताग्निसरणिः कर्ता शिरोबिन्दुकं
कर्मेति क्रमशिक्षितान्वयकलाः ये के च तेभ्यो नमः ॥ ३९ ॥
॥ इति श्रीबिल्हणस्तवः सम्पूर्णः ॥
1. भस्माङ्गरागाकृतेः, रक्षानुलिप्ताकृतेः । 2. प्राप्नुवन्तु 3. नायं श्लोकः बिल्हणस्य