Proofing

2026-04-02 21:26:55 by ambuda-bot

This page has not been fully proofread.

श्रीबिल्हणस्तवः
 
[ जानुभ्यां] प्रचटत्कृता [रिनिकरं ] स्रमुण्डमालान्वितं
वन्देऽभीष्टफल।प्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ५ ॥
भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक्
 
हस्ताग्रं फणिबद्धहस्त चरणं प्रारब्धयात्रापरम् ।
स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं ?
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्र मन्त्रेश्वरम् ॥ ६ ॥
यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च[च] वज्रार्चिषो
भूतप्रेतपिशाचराक्षसकला निर्घातपाता इव [ दिव] ।
उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ७ ॥
 
यद्ध्यानो ध्रुवपूरुषो[ध्यानोद्यतपूरुषो ]षितगृहग्रामस्थिरास्थायिनो
भूतप्रेतपिशाचराक्षस प्रतिहता निर्घातपाता इव ।
यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥ ८ ॥
॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥
 
५१. ॥ अथ श्रीबिल्हणस्तवः ॥
 
सन्तु सहस्रं देवास्तद्गुणदोषोक्तिभिः किमस्माकम् ।
शिवमेव वर्णयामः पुनरपि शिवमेव शिवमेव ॥ १॥
धत्से मूर्ध्नि सुधामयूखशकलं श्लाघ्ये कपालस्रजं
वक्षस्यद्रिसुताकुचागरुरजः सान्द्रं चिताभस्मा व ।
तद्वाणादिकविप्रणीतललित स्तोत्र प्रबन्धप्रिये
 
त्वत्कर्णे लभतामयं मम गिरां गुम्भोऽपि सम्भावनाम् ॥ २ ॥
 
पञ्चब्रह्म षडङ्गबीजमुखरप्रासादपञ्चाक्षर-
 
व्योमव्यापिपुरःसरेषु मनुषु प्रौढिः कुतो मादृशाम् ।
ओंकारादिनमोऽन्तमुद्रितभवन्नामावलीकल्पितं
 
सर्वं मन्त्रतया प्रभो परिणमत्यन्तर्बहिर्यागयोः ॥ ३ ॥
सर्वेषां हृदि विद्यसे शिव ततस्त्वद्ध्यानयोगेन किं
विश्वस्योपरि वर्तसे यदि ततस्त्वत्पादमूलेन किम् ।
त्रैलोक्यं त्वयि लीयते यदि तदा त्वत्प्राप्त्युपायैरलं
सर्व चापि तवैव तत्त्वमपरं दैवं न रोचिष्यते ॥ ४ ॥
 
१४१