Proofing

2026-04-26 21:37:29 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीज्ञानामृतरसायनम्
 
१३१</ignore>
<verse>
यं विदुः सङ्गनिर्मुक्ताः सामान्यं समदर्शिनः ।

तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम् ॥ २० ॥
</verse>
<verse>
असृजद्यस्तु भूतादीन् सप्तलोकान् सनातनान् ।

स्थितः सत्योपरि स्थाणुं तं प्रपद्ये सनातनम् ॥ २१ ॥
</verse>
<verse>
भक्तानां सुलभं तं तु दुर्लभं दूरपातिनाम् ।
 

अदूरस्थममुं देवं प्रकृतेः परतः स्थितम् ।
 

नमामि सर्वलोकस्थं व्रजामि शरणं शिवम् ॥ २२ ॥
 
</verse>
<trailer text="47_END">
॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि संवर्तमरुत्तसंवादे

मञ्जव द्गिरिवास महादेवस्तुतिर्नाम सप्तमाध्यायः

सम्पूर्णः ॥
 
</trailer>
<title text="48_START">
४८. ॥ अथ श्रीज्ञानामृतरसायनम् ॥
 
</title>
<verse>
श्रीपार्वत्युवाच
 
-
 
--
भगवन् देवदेवेश सर्वपापप्रणाशनम् ।
 

सर्वकामफलस्तोत्रं ज्ञानामृतरसायनम् ॥ १ ॥
 
</verse>
<verse>
महेश्वरं महादेवमीशानं शङ्करं हरम् ।

रुद्रं भद्रं शिवं विष्णुं नीलकण्ठं पितामहम् ॥ २ ॥
</verse>
<verse>
उग्रं भीमं शिवं स्थाणुं स्वयम्भूभूं शम्भुशूलिनम् ।

पुरुषं गौरीश्वरं चन्द्रं चन्द्रमौलिं जटाधरम् ॥ ३॥
</verse>
<verse>
उमापतिं पशुपतिं विरूपाक्षं वृषध्वजम् ।
 

वृषं गङ्गाधरं <delete>शङ्करं</delete><add>[शर्वं ]</add> श्रीकण्ठं वृषवाहनम् ॥ ४॥
</verse>
<verse>
पिङ्गाक्ष जटिलं कृत्तिवाससं <delete>गृहाधरम् </delete><add>[च गुहाशयम् ]</add>

ऊर्ध्वनेत्रं सहस्राक्षं सहस्रभुजशीर्ष<add>[क]</add>म् ॥ ५ ॥
 
</verse>
<verse>
मृगाङ्कचिह्नं भस्माङ्गं दशबाहुं त्रिलोचनम् ।
 

त्रिनेत्रं त्रिषु लोकेषु त्र्यम्बकं त्रिपुरान्तकम् ॥ ६ ॥
 
</verse>
<verse>
कालं कामाङ्गदहनं मन्त्रकं दैत्यघातकम् ।

<add>
[ब्रह्मणः ]</add> पञ्चमशिरोदक्षयज्ञविनाशनम् ॥ ७ ॥
</verse>
<verse>
पूषदन्तहरं साक्षात्तारका स्यनिपातनम् ।
 

ऊर्ध्वलिङ्गं महालिङ्गं चारुलिङ्गं त्रिलिङ्गिनम् ॥ ८ ॥
 
१३१
 
</verse>
</page>