Stotrarnava /176
This page has been fully proofread once and needs a second look.
<page>
<ignore>१३०
श्रीशिवस्तोत्रेषु
</ignore>
<verse>महात्मने चानङ्गाय सर्वाङ्गाय प्रमाथिने ।
तथा रुद्राणिपतये पृथवे कृत्तिवाससे ॥ ६ ॥
</verse>
<verse>कपालभूषिणे नित्यं सुवर्णमकुटाय च ।
महादेवाय कृष्णाय त्र्यम्बकाय हराय च ॥ ७ ॥
</verse>
<verse>क्रोधनायानृशंसाय मृत्यवे बाहुशालिने ।
दण्डिने दृप्ततपसे तथैवाक्रूरकर्मिणे ॥ ८।
॥</verse>
<verse>सहस्रशिरसे चैव सहस्रचरणाय च ।
विरूपाय सुरूपाय महारूपाय दंष्ट्रिणे ॥ ९॥
</verse>
<verse>पिनाकिनं महादेवं महाभोगिनमव्ययम् ।
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ १० ॥
</verse>
<verse>त्रिपुरघ्नं त्रिणयनं त्रिलोकेशं महौजसम् ।
प्रभवं सर्वभूतानां धातारं धरणीधरम् ॥ ११ ॥
</verse>
<verse>ईशानं शङ्करं शर्वं शिवं विश्वेश्वरं भवम् ।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ १२ ॥
</verse>
<verse>विरूपाक्षं दशभुजं विष्यद्गङ्गं वृषध्वजम् ।
उग्रं स्थाणुं शिवं घोरं शर्वं गौरीशमीश्वरम् ॥ १३ ॥
</verse>
<verse>शितिकण्ठमजं शुभ्रं पृथं विधुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ १४ ॥
</verse>
<verse>प्रणम्य शिरसा देवं नागाङ्गदधरं हरम् ।
शरण्यं शरणं यामि महादेवं चतुर्मुखम् ॥ १५ ॥
</verse>
<verse>विरोचमानं वपुषा दिव्याभरणभूषितम् ।
अनाद्यन्तमजं शम्भुं सर्वव्यापिनमीश्वरम् ॥ १६ ॥
</verse>
<verse>निस्त्रैगुण्यं निरुद्योगं निर्मलं निधिमोजसाम् ।
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ॥ १७ ॥
</verse>
<verse>निष्कलं निर्मलं नित्यमकारणमलेपनम् ।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ॥ १८ ॥
</verse>
<verse>यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः ।
योगीशं तत्त्वमार्गस्थाः कैवल्यपदमक्षरम् ॥ १९ ॥
</verse>
</page>
<ignore>१३०
<verse>महात्मने चानङ्गाय सर्वाङ्गाय प्रमाथिने ।
तथा रुद्राणिपतये पृथवे कृत्तिवाससे ॥ ६ ॥
<verse>कपालभूषिणे नित्यं सुवर्णमकुटाय च ।
महादेवाय कृष्णाय त्र्यम्बकाय हराय च ॥ ७ ॥
<verse>क्रोधनायानृशंसाय मृत्यवे बाहुशालिने ।
दण्डिने दृप्ततपसे तथैवाक्रूरकर्मिणे ॥ ८