Stotrarnava /176
This page has not been fully proofread.
१३०
श्रीशिवस्तोत्रेषु
महात्मने चानङ्गाय सर्वाङ्गाय प्रमाथिने ।
तथा रुद्राणिपतये पृथवे कृत्तिवाससे ॥ ६ ॥
कपालभूषिणे नित्यं सुवर्णमकुटाय च ।
महादेवाय कृष्णाय त्र्यम्बकाय हराय च ॥ ७ ॥
क्रोधनायानृशंसाय मृत्यवे बाहुशालिने ।
दण्डिने दृप्ततपसे तथैवाक्रूरकर्मिणे ॥ ८ ।
सहस्रशिरसे चैव सहस्रचरणाय च ।
विरूपाय सुरूपाय महारूपाय दंष्ट्रिणे ॥ ९॥
पिनाकिनं महादेवं महाभोगिनमव्ययम् ।
त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ १० ॥
त्रिपुरनं त्रिणयनं त्रिलोकेशं महौजसम् ।
प्रभवं सर्वभूतानां धातारं धरणीधरम् ॥ ११ ॥
ईशानं शङ्करं शवं शिवं विश्वेश्वरं भवम् ।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम् ॥ १२ ॥
विरूपाक्षं दशभुजं विष्यद्गङ्गं वृषध्वजम् ।
उग्रं स्थाणुं शिवं घोरं शवं गौरीशमीश्वरम् ॥ १३ ॥
शितिकण्ठमजं शुभ्रं पृथं विधुहरं हरम् ।
विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥ १४ ॥
प्रणम्य शिरसा देवं नागाङ्गदधरं हरम् ।
शरण्यं शरणं यामि महादेवं चतुर्मुखम् ॥ १५ ॥
विरोचमानं वपुषा दिव्याभरणभूषितम् ।
अनाद्यन्तमजं शम्भुं सर्वव्यापिनमीश्वरम् ॥ १६ ॥
नित्रैगुण्यं निरुद्योगं निर्मलं निधिमोजसाम् ।
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम् ॥ १७ ॥
निष्कलं निर्मलं नित्यमकारणमलेपनम् ।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः ॥ १८ ॥
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः ।
योगीशं तत्त्वमार्गस्थाः कैवल्यपदमक्षरम् ॥ १९ ॥