Proofing

2026-04-02 21:26:52 by ambuda-bot

This page has not been fully proofread.

४५. ॥ अथ श्रीचन्द्रमौलिपञ्चकम् ॥
सदा मुदा मदीयके मनः सरोरुहान्तरे
विहारिणेऽघसञ्चयं विदारिणे चिदात्मने ।
निरस्ततोय तोयमुन्निकायकायशोभिते
 
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ १ ॥
 
नमो नमोऽष्टमूर्तये नमो नमानकीर्तये
 
नमो नमो महात्मने नमः शुभप्रदायिने ।
नमो दयार्द्रचेतसे नमोऽस्तु कृत्तिवाससे
 
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ २॥
 
पितामहाद्यवेद्यकस्वभावकेवलाय ते
समस्तदेववासवादिपूजिताङ्घ्रिशोभिने ।
भवाय शक्ररत्नसद्गलप्रभाय शूलिने
 
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ३॥
 
शिवोऽहमस्मि भावये शिवं शिवेन रक्षितः
शिवस्य पूर्णवर्चसः समर्चये पदद्वयम् ।
शिवात्परं न विद्यते शिवे जगत् प्रवर्तये
 
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ४ ॥
 
मरन्दतुन्दिलारविन्दसुन्दरस्मिताननो-
 
न्मिलन्मिलिन्दबृन्दनीलनीलकुन्तलां शिवाम् ।
कलाकलापसारिणीं शिवां च वीक्ष्य तोषिणीं [णे ]
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ ५ ॥
॥ इति श्रीचन्द्रमौलिपञ्चकं सम्पूर्णम् ॥
 
४६. ॥ अथ श्रीचन्द्रमौलिपञ्चकम् ॥
शिवाननारविन्दसन्मिलिन्दभावभाङ्मनो-
विनोदिने दिनेशकोटिकोटिदीप्ततेजसे ।
 
स्वसेवलोकसादरावलोकनैकवर्तिने
 
नमः शिवाय साम्बशङ्कराय चन्द्रमौलये ॥ १ ॥