Stotrarnava /173
This page has been fully proofread once and needs a second look.
<page>
<pignore>श्री अपराधस्तवः १२७</pignore>
<verse>किं वाचा बहुविस्तरेण भगवन् मत्संनिभो भूतले
नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७ ॥</verse>
<verse>सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा-
संख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।
श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि<fix> </fix>माम् <fix>॥</fix> २८ ॥</verse>
<verse>विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।
दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि <error>मात्</error><fix>माम्</fix> ॥ २९ ॥</verse>
<verse>विष्ठामूत्रजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं
कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् ।
ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३० ॥</verse>
<verse>पङ्गुत्वान्ध्यजरित्वमौर्यखलताबाधिर्यजन्मस्थलं
क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।
संपश्यन्नपि दोषमत्र तु सदा संप्रीतियुक्तं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१ ॥</verse>
<verse>देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा
दन्नं <add>(?)</add> क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२ ॥</verse>
<trailer>॥ इति श्रीअपराधस्तवः सम्पूर्णः ॥</trailer>
</page>
<