Proofing

2026-04-26 20:10:31 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<p>
श्री अपराधस्तवः
 
१२७</p>
<verse>
किं वाचा बहुविस्तरेण भगवन् मत्संनिभो भूतले

नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः ।

तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्य चूडामणे
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७ ॥
 
</verse>
<verse>
सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा-

संख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।

श्रीशा श्री शमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहिमाम्<fix> </fix>माम् <fix>॥</fix> २८ ॥
</verse>
<verse>
विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं

निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।

दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशु
 
शुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि मात्<error>मात्</error><fix>माम्</fix> ॥ २९ ॥
 
</verse>
<verse>
विष्ठामूत्रजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं
 

कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् ।
 

ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३० ॥
 
</verse>
<verse>पङ्
गुत्वान्ध्यजरित्वमौर्यखलता बाधिर्यजन्मस्थलं
 

क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।

संपश्यन्नपि दोषमत्र तु सदा संप्रीतियुक्त प
 
तं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१ ॥
</verse>
<verse>
देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा
 

दन्नं <add>(?)</add> क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् ।

तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२ ॥
 
</verse>
<trailer>
॥ इति श्रीअपराधस्तवः सम्पूर्णः ॥
 
१२७
 
</trailer>
</page>