Proofing

2026-04-02 21:26:52 by ambuda-bot

This page has not been fully proofread.

श्री अपराधस्तवः
 
किं वाचा बहुविस्तरेण भगवन् मत्संनिभो भूतले
नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः ।
तस्मादीदृशमात्मवचकमहो त्रैलोक्य चूडामणे
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७ ॥
 
सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा-
संख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।
श्रीशा श्री शमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहिमाम् २८ ॥
विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं
निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।
दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशु
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि मात् ॥ २९ ॥
 
विष्ठामूत्रजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं
 
कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् ।
 
ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३० ॥
 
पगुत्वान्ध्यजरित्वमौर्यखलता बाधिर्यजन्मस्थलं
 
क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।
संपश्यन्नपि दोषमत्र तु सदा संप्रीतियुक्त प
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१ ॥
देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा
 
दन्नं (?) क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् ।
तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२ ॥
 
॥ इति श्रीअपराधस्तवः सम्पूर्णः ॥
 
१२७