Proofing

2026-04-26 20:23:32 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>१२६ श्रीशिवस्तोत्रेषु</ignore>
<pverse>त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९ ॥</pverse>
<verse>अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणं
पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २० ॥</verse>
<verse>दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं
दासीमेषखरस्वभावमपटुं संमानने भाजने ।
रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा
कारुण्याकर वारिघे भव पितर्दोषाकरं पाहि माम् ॥ २१ ॥</verse>
<verse>अत्यादेशिनमुत्तमस्थितिमतां संत्यागिनं नास्तिकं
रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।
माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२ ॥</verse>
<verse>दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं
संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् ।
स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३ ॥</verse>
<verse>भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं
संभ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् ।
शम्भो त्वत्पदभक्तिहीनमदृढं संमूढमात्मद्विषं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४ ॥</verse>
<verse>ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं
स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् ।
लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् <fix>॥</fix> २५ ॥</verse>
<verse>त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं
नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् ।
दृष्ट्वापि स्वकलेबरं कृशतरं तत्रापि रक्तं पशुं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६ ॥</verse>
</page>