Proofing

2026-04-02 21:26:52 by ambuda-bot

This page has not been fully proofread.

१२६
 
श्रीशिवस्तोत्रेषु
 
त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९ ॥
 
अस्पृश्यं विकलं कुधैर्यमखिले दोपे स्वकीये गुणं
 
पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् ।
चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २० ॥
दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं
दासीमेषखरस्वभावमपटुं संमानने भाजने ।
रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा
कारुण्याकर वारिघे भव पितर्दोषाकरं पाहि माम् ॥ २१ ॥
अत्या देशिनमुत्तमस्थितिमतां संत्यागिनं नास्तिकं
रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मन: ।
माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२ ॥
 
दुष्कार्यालघुभारवाहनपशुं तृष्णा तृणग्राहिणं
 
संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् ।
स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३ ॥
भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं
 
संभ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् ।
 
शम्भो त्वत्पदभक्तिहीनमदृढं संमूढमात्मद्विषं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४ ॥
 
ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं
 
स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् ।
 
लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् २५ ॥
 
त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं
 
नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् ।
 
दृष्ट्वापि स्वकलेबरं कृशतरं तत्रापि रक्तं पं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६ ॥