Proofing

2026-04-26 20:18:07 by akprasad

This page has been fully proofread once and needs a second look.

1
 
<page>
<ignore>
श्रीअपराधस्तवः
 
१२५</ignore>
<verse>
कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावश्ञ्चकं
 

दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् ।

मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितं
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२ ॥
 
</verse>
<verse>
दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च संपीडितं
 

चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् ।

भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३ ॥
 
</verse>
<verse>
चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं

सारासारविचारहीनमनसं नीचप्रियं नीरसम् ।

मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनं
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४ ॥
 
</verse>
<verse>
आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं
 

सङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा ।
 

मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५ ॥
 
</verse>
<verse>
वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदा
 

सच्छास्त्रेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् ।
 

दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदा
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६ ॥
 
</verse>
<verse>
सत्यत्यागद्याक्षमाशमदमाद्यर्थानभिज्ञात्मकं
 

देवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् ।
 

विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं
 

कारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७ ॥
 
</verse>
<verse>
कृत्वा धर्ममतिं कथंचिदपरः को मत्समोऽस्मिन्भवे -
 

दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् ।

दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनं
 

कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८ ॥
 
</verse>
<verse merge-next="true">
मार्जाला खुबकाश्वकुक्कुटक पिक्रोडा हिवृत्तिं सदा
 

तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् ।
 
- १२५
 
</verse>
</page>