Proofing

2026-04-02 21:26:51 by ambuda-bot

This page has not been fully proofread.

१२४
 
श्रीशिवस्तोत्रेषु
 
अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवजितं
कारुण्याकरवारिधे भवपितर्दोपाकरं पाहि माम् ॥ ४ ॥
 
क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नत्रतं रागिणं
 
भीरुं डाम्भिकमीर्ण्यकं व्यसनिनं पापात्मकं सूतकम् ।
आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं
कारुण्य करवारिधे भव पितर्दोपाकरं पाहि माम् ॥ ५ ॥
 
आकाङ्क्षाश्रयमार्यवर्ति विमुखं क्षीणं गुणद्वेषिणं
धूर्त दुर्गुणमत्यशुद्धहृदयं सर्वत्र संदेहिनम् ।
दीनं पापरतं समस्त विषयेष्वासक्तमन्यायिनं
कारुण्याकरवारिधे भव पितर्दोपाकरं पाहि माम् ॥ ६ ॥
 
अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषा
संसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् ।
बैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिन
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७ ॥
 
द्वन्द्वग्रस्त समस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं
 
दुः सङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् ।
शैत्रज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं
 
कारुण्या करवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८ ॥
 
दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवा रिपुं
 
सद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् ।
शिष्टा शिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि मान् ॥ ९ ॥
 
स्मप्नेऽप्युत्तम गन्धपुष्पनिकरैरीशाचे नावर्जितं
 
ध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छङ्गलम् ।
दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं
 
कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १० ॥
 
आत्मातिस्तुतिकारिणं परमहा निन्दाकरं निन्दितं
 
लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् ।
 
व्याक्रोश । द्विहतस्वकार्यनिचयं सर्वापदां सञ्चयं
 
कारुण्य करवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११ ॥
 
: