Proofing

2026-04-02 21:26:51 by ambuda-bot

This page has not been fully proofread.

१२२
 
श्रीशिवस्तोत्रेषु
 
उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः ।
कुक्षिं पातु भवानीशः पृष्टं पातु कुलेश्वरः ॥ ४८ ॥
प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः ।
सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥ ४९ ॥
जङ्घे पुररिपुः पातु चरणौ भवनाशनः ।
शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥ ५० ॥
इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः ।
 
पूर्वे दिशि मृड: पातु दक्षिणे यमसूदनः ॥ ५१ ॥
वारुण्यां सलिलाधीश उदीच्यां मे महीधरः ।
ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥ ५२ ॥
नैर्ऋत्यां भूतभृत् पातु वायव्यां बलवर्धनः ।
ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥ ५३ ॥
सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः ।
 
एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥ ५४ ॥
 
नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् ।
सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥ ५५ ॥
 
॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥
 
४३. ॥ अथ श्रीकालहस्तीश्वरस्तोत्रम् ॥
 
महेश्वरं महोन्नतं महेश्वरं सदानम-
 
गणेश्वरं गुणान्वितं गणेश्वरं जगन्नुतम् ।
अनीश्वरं वृषाश्वरंहसाव रुद्रगामिनं ( ? )
 
सदा भजामि कालहस्तिसाम्ब मूर्तिमीश्वरम् ॥ १॥
 
निटालविस्फुटै कटक्तट । लवह्निचिच्छटा-
 
लस ध्वनिप्रकृज्जटालनिष्ट हैमनम् ।
 
घटीभवादिमौ निहृत्कुटी भवत्पदं त्रिशुं [विभुं ]
 
सदा भजामि कालहस्तिसाम्बमूर्तिमीश्वरम् ॥ २ ॥