Stotrarnava /167
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीशङ्करकवचम्
१२१</ignore>
<verse>सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् ।
जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३४ ॥
</verse>
<verse>दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् ।
निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३५ ॥
</verse>
<verse>पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ३६॥
</verse>
<verse>ज्ञानवैराग्यसंपन्नं नित्यानन्दमयं परम् ।
शाश्वतैश्वर्य संपूर्णणं महायोगीश्वरेश्वरम् ॥ ३७ ॥
</verse>
<verse>समस्तशक्तिसंपन्नं पुण्यकार्यं दुरासदम् ।
तारकं ब्रह्म संपूर्णमणीयांसं महत्तरम् ॥ ३८ ॥
</verse>
<verse>यतीनां परमं ब्रह्म यतीनां तपसः फलम् ।
संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ३९ ॥
</verse>
<verse>विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् ।
महादेवं महानन्दं देवानामपि दैवतम् ॥ ४० ॥
</verse>
<verse>शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् ।
शंकरो मे शिरः पातु ललाटं फाललोचनः ॥। ४१॥
</verse>
<verse>विश्वचक्षुर्ददृशौ पातु रुद्रः पातु भ्रुवौ मम ।
गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥ ४२ ॥
</verse>
<verse>कपोलौ मे महादेवः पातु नासां सदाशिवः ।
मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥ ४३ ॥
</verse>
<verse>दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः ।
रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥ ४४ ॥
</verse>
<verse>चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः ।
कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥ ४५ ॥
</verse>
<verse>स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः ।
उपबाहू महावीर्यः करौ विबुधसत्तमः ॥ ४६ ॥
</verse>
<verse>अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् ।
हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥ ४७ ॥
१२१
</verse>
</page>
<ignore>श्रीशङ्करकवचम्
<verse>सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् ।
जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३४ ॥
<verse>दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् ।
निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३५ ॥
<verse>पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् ।
कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ३६॥
<verse>ज्ञानवैराग्यसंपन्नं नित्यानन्दमयं परम् ।
शाश्वतैश्वर्य
<verse>समस्तशक्तिसंपन्नं पुण्यका
तारकं ब्रह्म संपूर्णमणीयांसं महत्तरम् ॥ ३८ ॥
<verse>यतीनां परमं ब्रह्म यतीनां तपसः फलम् ।
संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ३९ ॥
<verse>विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् ।
महादेवं महानन्दं देवानामपि दैवतम् ॥ ४० ॥
<verse>शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् ।
शंकरो मे शिरः पातु ललाटं फाललोचनः ॥
<verse>विश्वचक्षुर्