Proofing

2026-04-06 02:41:54 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१२०
 

श्रीशिवस्तोत्रेषु
 
</ignore>
<verse>
तपस्तपन्तु भो वत्सा अत्ब्रवीदिति तान् शिवः ।

स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः ।

ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ २२ ॥
 
</verse>
<verse>
ब्रह्मविष्णुरुद्रा ऊचुः —
 

तपः केन प्रकारेण कर्तव्यं परमेश्वर ।
 

ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २३ ॥
 
</verse>
<verse>
महादेव उवाच-
 
--
कायेन मनसा वाचा ध्यानपूजाजपादिभिः ।

कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २४ ॥
 
</verse>
<verse>
देवा ऊचुः-
 
--
त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः ।

सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ २५ ॥
 
</verse>
<verse>
शङ्कर उवाच-
 
--
शृणुध्वं सर्वपापन्घ्नं भुक्तिमुक्तिप्रदं नृणाम् ।

सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ २६ ॥
 
</verse>
<verse>
यया संसारमग्नानां मुक्तिर्भवति शाश्वती ।

शृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ २७ ॥
 
</verse>
<verse>
पठतां शृण्वतां सद्यो मुक्तिः म्स्यादनपायिनी ।

ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ २८ ॥
 
</verse>
<verse>
भस्मधारी मुनिर्मोमौनी पद्मासनसमन्वितः ।
 

ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ २९ ॥
 
</verse>
<verse>
पार्वतीसहितं शम्भुं जटामकुटमण्डितम् ।
 

वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३० ॥
 
</verse>
<verse>
त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् ।

सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३१ ॥
 
वि
</verse>
<verse>बि
भ्राणं सुप्रसन्नं च कुठारवरदाभयम् ।

दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३२ ॥
 
</verse>
<verse>
विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् ।

सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ ३३ ॥
 
</verse>
</page>